Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
[२५
विंशतिर्विशिकाः]
चतुर्थी चरमपरिवर्तविंशिका नियतेन चरमावर्तलक्षणेन, पुनः कथम्भूतेन ? तथाभव्यत्वादितदन्यहेतुकलितेन प्राकृतत्वेन पदव्यत्ययात् तदन्यैः कालव्यतिरिक्तैस्तथाभव्यत्वनियतिपूर्वकृतकर्मादिहेतुभिः कलितेन युक्तेन चो विशेषे कथञ्चिद् न सर्वथा कालेनैव, कार्यस्य सामग्रीसाध्यत्वात्, मृद इव घटपरिणतेश्चक्रचीवरादिसामग्रीसाध्यत्वादिति ।।१२।। ततः किमित्याह
इय पाहनं नेयं इत्थं कालम्स तओ तओ चेव ।
तस्सत्तिविगमहेऊ सा वि जओ तस्सहाव ति॥१३॥ अक्षरगमनिका-इति प्राधान्यं ज्ञेयमत्र कालस्य ततस्तक एव तच्छक्तिविगमहेतुः सापि यतस्तत्स्वभावेति ||१३||
इति अनन्तरोक्तरीत्या प्राधान्यं विशिष्टत्वं ज्ञेयं बोद्धव्यम् अत्र संसारपरिभ्रमणशक्तिविगमे कालस्य चरमावर्तलक्षणस्य, ततस्तस्मात् तकः स चरमावर्तकाल एव तच्छक्तिविगमहेतुः भवभ्रमणशक्तिह्रासहेतुरित्यनेन द्विचरमावर्तादेस्तन्नाशहेतुताव्यवच्छेदः अवसेयः। 'तत्तओ चेव' इति पाठान्तरमाश्रित्यानन्तरोक्तरीत्या तत्त्वतः परमार्थतः कालस्य प्राधान्यं ज्ञेयम्। एवमेव सापि संसारपरिभ्रमणशक्तिरपि यतः यस्मात् तत्स्वभावा चरमावर्तकालं प्राप्य विगमस्वभावा, तस्मात् कारणात् चरमावर्तकाल एव संसारपरिभ्रमणशक्तिविगमहेतुरिति यदुक्तं तद्युक्तमेव, परस्परं नाश्यनाशकस्वभावविरहे संसारपरिभ्रमणशक्तिविगमाभावाद् मोक्षाभावः प्रसज्येत। इतिः समाप्तौ ।।१३।। नन्वेवमुभयोस्तत्स्वभावत्वे नाशोपपत्तेः स्वभाववाद एव श्रेयानिति चेत्, न, सामग्या एव कार्यसाधकत्वादिति सामग्री निरूपयन् समुदयवादमाह
कालो सहाव नियई पुवकयं पुरिस कारणेगंता।
मिच्छत्तं; ते चेव उ समासओ हुंति सम्मत्तं ॥१४॥ अक्षरगमनिका-कालः स्वभावो नियतिः पूर्वकृतं पुरुषः कारणमेकान्ताद् मिथ्यात्वम्, ते एव तु समासतो भवन्ति सम्यक्त्वम् ।।१४।।
टीका-काल एवैकः सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एव कारणमेकान्ताद् अपरनिरपेक्षतया कालादीनां कारणत्वेनाऽभ्युपगमाद् मिथ्यात्वं मिथ्यावादः। त एव कालादय एव तुर्विशेष समासतः परस्पराजहद्वृत्तयः कारणतयाऽभ्युपगम्यमाना भवन्ति सम्यक्त्वं प्रतिपद्यन्ते सम्यक्त्वरूपताम् । एतदुक्तं भवति-कालादिप्रत्येकैकान्तकारणरूपो मिथ्यावादस्तथा परस्परसव्यपेक्षकालादिकारणरूपः सम्यग्वादः। अत्र बहुवक्तव्यं तत्तु सम्मत्यादिग्रन्थतोऽवसेयमिति ।।१४।। अत्रार्थे ज्ञातमाह
नायमिह मुग्गपत्ती समयपसिद्धा वि भावियव्वं ति।
सब्बेसु विसिद्वृत्तं इयरेयरभावसाविक्खं ॥१५॥ अक्षरगमनिका-ज्ञातमिह मुद्गपक्तिः समयप्रसिद्धाऽपि भावयितव्येति सर्वेषु विशिष्टत्वमितरेतरभावसापेक्षम् ।।१५।।
टीका-ज्ञातं दृष्टान्त इह-कारणसमुदयवादे मुद्गपक्तिः मुद्गो धान्यविशेषस्तस्य पक्तिः पाकः सा च मुद्गतद्गतपाकानुकूलस्वभावकालनियतिभोक्तृभाग्यपाचकपाकानुकूलक्रियास्थालीजलज्वलनादिकारणसामग्रीसाध्या समयप्रसिद्धाऽपि आगमप्रसिद्धाऽपि भावयितव्या सूक्ष्मेक्षिकया विचारणीया इति हेतोः सर्वेषु कारणेषु विशिष्टत्वं वि.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148