Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
१२ ]
द्वितीया लोकानादित्वनामा
[ विंशतिर्विंशिकाः
सदातनत्वं चैव एतस्य बन्धस्य प्रसज्येत । तथा च न कस्यचिन्मुक्तिवार्तापि स्यादिति ||१३|| अत्र परः शङ्कते -
जह भव्वत्तमकयगं न य निचं एवं किं न बंधोवि ? | किरियाफलजोगो जं एसो ता न खलु एवं ति ॥१४॥
अक्षरगमनिका -- यथा भव्यत्वम् अकृतकं न च नित्यमेवं किं न बन्धोऽपि ? आचार्य :- क्रियाफलयोगो यद् एष तस्मान्न खल्वेवमिति || १४ ||
टीका — यथा औपम्ये भवदभ्युपगतं भव्यत्वं तन्त्रप्रसिद्धो मुक्तिगमनहेतुर्जीवस्यानादिपारिणामिको भावः अकृतकम् अजन्यं न नैव चः पुनरर्थे नित्यं सदातनम् । एवं भव्यत्ववत् किं प्रश्ने न नैव बन्ध उक्तस्वरूपः अपिः समुच्चये अकृतकः पुनर्न नित्यः ? अयं भावार्थ : - यथा भव्यत्वम् अकृतकं तथापि न नित्यं तथैव बन्धोऽपि किं नाऽकृतकः सन् न नित्यः स्यात् ? आचार्य आह-क्रिया जीवसत्का हिंसादिचेष्टा रागाद्यध्यवसायरूपा वा तस्याः फलं कार्यं कर्मपरमाणु श्लेषरूपं तेन जीवस्य योगः सम्बन्धः क्रियाफलयोगो यद् यस्मात् कारणात् एष बन्धस्तस्मात् कारणात् न नैव खलुरवधारणे एवं भव्यत्ववत् बन्धः अकृतक इतिः समाप्तौ ||१४|| ननु यद्यदकृतकं तत्तन्नित्यं यथाकाशं भव्यत्वं पुनः अकृतकं सत् अनित्यमित्यत्र को हेतुः ? आचार्य आह
भव्वत्तं पुणमकयगमणिच्चो चैव तहसहावाओ ।
जह कयगो वि हु मुक्खो निचो वि य भाववइचित्तं ॥१५॥
अक्षरगमनिका — भव्यत्वं पुनः अकृतकमनित्यमेव तथास्वभावात्, यथा कृतकोऽपि खलु मोक्ष नित्योऽपि चात्र हेतुः केवलं भाववैचित्र्यमिति ॥ १५ ॥
टीका — भव्यत्वम् उक्तस्वरूपं पुनर्विशेषे अकृतकम् अजन्यं सत् अनित्यं गत्वरमेव तथास्वभावात् हेतोः । यथा प्रदर्शने कृतकोऽपि जन्योऽपि हु प्राकृतत्वादवधारणे खलु मोक्षः शुद्धात्मस्वरूपलाभो नित्योऽपि शाश्वतश्चः समुच्चये। अत्र हेतुः केवलं भाववैचित्र्यं पदार्थानां वैविध्यमिति । इदं तु ध्येयम् अत्र जगति कोऽपि नियमो नास्ति यदुत यन्नित्यं तदनादिमदेव यच्चानादिमत्तन्नित्यमेवेति ||१५|| भव्यत्वमिवाऽकृतकमपि चानित्यं किञ्चित्तत्त्वं नामान्तरेणान्यैरपि मोक्षवादिभिर्वर्ण्यते तदुपदर्श्यते—
Jain Education International
एवं चैव दिदिक्खा भवबीजं वासणा अविजा य । सहजमलसद्दवच्चं वन्निज्ज मुक्खवाईहिं ॥१६॥
अक्षरगमनिका — एवमेव दिदृक्षा भवबीजं वासनाऽविद्या च सहजमल इति शब्दवाच्यं वर्ण्यते मोक्षवादिभिरिति ।। १६॥
टीका — एवमेव यथानन्तरं भव्यत्वमकृतकमपि चानित्यं वर्णितं तथैव सांख्यैः शैवैर्बोद्धैर्वेदान्तिभिर्जेनैश्च यथाक्रमं दिद्दक्षा भवबीजं वासनाऽविद्या सहजमल इतिशब्दवाच्यं किञ्चित्तत्त्वम् अकृतमपि चानित्यं वर्ण्यते निरूप्यते मोक्षवादिभिः शुद्धात्मस्वरूपलाभवदनशीलैरिति ||१६|| अथ किंस्वरूपं तत्तत्त्वमित्याह— एयं पुण तह कम्पेयराणुसंबंधजोगयारूवं । सिद्धाणाभावणागम्मं ॥१७॥
एतदभावे
णायं
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148