Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 21
________________ १०] द्वितीया लोकानादित्वनामा [विंशतिर्विंशिकाः हेतुरस्तु। को दोषः ? न कोऽपि दोष इत्यर्थः । एवमेवेदं तथास्वभावत्वं लोकस्याऽनादित्वेऽपि हेतुर्भवतु दोषाभावादिति ॥७॥ अथ परपरिकल्पितचराचरजगत्कर्तुरीश्वरस्य निराकरणायाह सो भावऽभावकारणसहावो भयवं हविज नेयं पि। सवाहिलसियसिद्धिओ अनहा भत्तिमत्तं तु॥८॥ अक्षरगमनिका-अथ स भावाभावकारणस्वभावो भगवान् भवेल्लोकस्यादिकारणमिति चेत् । नैतदपि, यतः सर्वाभिलषितसिद्धयः स्युः। अन्यथा भक्तिमात्रं तु ॥८॥ टीका-अथ स वक्ष्यमाणो भावाभावकारणस्वभावः भावश्च सत्ता भवनं वा अभावश्च अभवनं नाशो वा भावाभावौ तयोः कारणं निमित्तं भावाभावकारणं तदेव स्वभावो यस्य स तथाऽसौ भगवान् ईधरो भवेत् स्यादिति चेत् । न नैव एतद् लोकस्यादिकारणतया भगवत्कल्पनम् अपिः समुच्चये, आस्तां परमपुरुषादिकल्पनं, नैतदपि युक्तिक्षममित्यर्थः। युक्तिश्चात्र-एवंभूताद् भगवतः सकाशात् सर्वाभिलषितसिद्धयः सर्वेषां सर्वाणि वा युक्तान्ययुक्तानि चाभिलषितानि प्रार्थितानि तेषां सिद्धयः स्युः। तथा च जगति कोऽपि दारिद्र्यादिदुःखोपहतो न स्यात्। अन्यथा अभिलषितसिद्ध्यभावेऽपि तथास्वभावभगवत्कल्पनं भक्तिमात्रं केवलम् आदर एव तुरवधारणे॥।॥ एवं परपरिकल्पितस्वभावं भगवन्तं निराकृत्याधुना भगवतः सत्स्वरूपमावेदयति धम्माधम्मनिमित्तं नवरमिहं हंत होइ एसो वि। इहरा. उ थयकोसाइ सबमेयम्मि विहलं तु॥६॥ अक्षरगमनिका धर्माधर्मनिमित्तं नवरमिह हंत भवत्येषोऽपि भगवान् । इतरथा तु स्तवाक्रोशादि सर्वमेतस्मिन् विषये विफलं तु ||६|| टीका-धर्मः पुण्यं सम्यग्दर्शनज्ञानादिस्वभावो वाऽधर्मः पापं मिथ्यात्वादिविभावो वा धर्माधर्मों तयोर्निमित्तं हेतुर्धर्माधर्मनिमित्तं नवरं प्राकृतत्वात् केवलम् इह जगति हंत आमन्त्रणे भवति जायते एष भगवान् अपिः समुच्चये आस्तां जीवस्य स्वकीयः शुभाशुभभाव इति। इतरथा धर्माधर्मयोनिमित्ताभावे तुर्विशेषे स्तवाक्रोशादि स्तोत्रावर्णवादपूजाशातनादि सर्वं निरवशेषम् एतस्मिन् भगवति विषये विफलं-निष्फलमेव स्यात् तुरवधारणे ।।६।। यथा स्तावकादेर्धर्माधर्मों भवतस्तथा भगवतोऽपि किञ्चित् स्यादित्याशङ्कायामाह न य तस्स वि गुणदोसा अणासयनिमित्तभावओ हुंति। तम्मयचेयणकप्पो तहासहावो खु सो भयवं ॥१०॥ अक्षरगमनिका-न च तस्यापि गुणदोषौ अनाशयनिमित्तभावतो भवतः। तन्मयचेत(वेद)नकल्पस्तथास्वभावः खलु स भगवान् ।।१०॥ टीका--न नैव चो विशेषे तस्यापि भगवतः स्तवाक्रोशादितो गुणदोषौ लाभहानी भवतो जायेते। कस्मात् ? अनाशयनिमित्तभावतो वीतरागत्वात् कृतकृत्यत्वाच्च हानादानपरिणामरूपाऽऽशयाभावाद् अनाशयोऽपि स्तावकादेर्धर्माधर्मों प्रति निमित्तं भवतीति अनाशयनिमित्तभावस्तस्मात् हेतोरिति । पठ्यते च 'अण्णासयनिमित्तभावओ' तथा च-अन्येषां स्तावकाक्रोशकादीनां स्वविषयकस्तवाक्रोशादितः शुभाशुभपरिणामात्मकाशयं प्रति स भगवान् केवलं निमित्तं भवतीति । अत्रापि को हेतुः ? उच्यते, स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148