SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ ] द्वितीया लोकानादित्वनामा [ विंशतिर्विंशिकाः सदातनत्वं चैव एतस्य बन्धस्य प्रसज्येत । तथा च न कस्यचिन्मुक्तिवार्तापि स्यादिति ||१३|| अत्र परः शङ्कते - जह भव्वत्तमकयगं न य निचं एवं किं न बंधोवि ? | किरियाफलजोगो जं एसो ता न खलु एवं ति ॥१४॥ अक्षरगमनिका -- यथा भव्यत्वम् अकृतकं न च नित्यमेवं किं न बन्धोऽपि ? आचार्य :- क्रियाफलयोगो यद् एष तस्मान्न खल्वेवमिति || १४ || टीका — यथा औपम्ये भवदभ्युपगतं भव्यत्वं तन्त्रप्रसिद्धो मुक्तिगमनहेतुर्जीवस्यानादिपारिणामिको भावः अकृतकम् अजन्यं न नैव चः पुनरर्थे नित्यं सदातनम् । एवं भव्यत्ववत् किं प्रश्ने न नैव बन्ध उक्तस्वरूपः अपिः समुच्चये अकृतकः पुनर्न नित्यः ? अयं भावार्थ : - यथा भव्यत्वम् अकृतकं तथापि न नित्यं तथैव बन्धोऽपि किं नाऽकृतकः सन् न नित्यः स्यात् ? आचार्य आह-क्रिया जीवसत्का हिंसादिचेष्टा रागाद्यध्यवसायरूपा वा तस्याः फलं कार्यं कर्मपरमाणु श्लेषरूपं तेन जीवस्य योगः सम्बन्धः क्रियाफलयोगो यद् यस्मात् कारणात् एष बन्धस्तस्मात् कारणात् न नैव खलुरवधारणे एवं भव्यत्ववत् बन्धः अकृतक इतिः समाप्तौ ||१४|| ननु यद्यदकृतकं तत्तन्नित्यं यथाकाशं भव्यत्वं पुनः अकृतकं सत् अनित्यमित्यत्र को हेतुः ? आचार्य आह भव्वत्तं पुणमकयगमणिच्चो चैव तहसहावाओ । जह कयगो वि हु मुक्खो निचो वि य भाववइचित्तं ॥१५॥ अक्षरगमनिका — भव्यत्वं पुनः अकृतकमनित्यमेव तथास्वभावात्, यथा कृतकोऽपि खलु मोक्ष नित्योऽपि चात्र हेतुः केवलं भाववैचित्र्यमिति ॥ १५ ॥ टीका — भव्यत्वम् उक्तस्वरूपं पुनर्विशेषे अकृतकम् अजन्यं सत् अनित्यं गत्वरमेव तथास्वभावात् हेतोः । यथा प्रदर्शने कृतकोऽपि जन्योऽपि हु प्राकृतत्वादवधारणे खलु मोक्षः शुद्धात्मस्वरूपलाभो नित्योऽपि शाश्वतश्चः समुच्चये। अत्र हेतुः केवलं भाववैचित्र्यं पदार्थानां वैविध्यमिति । इदं तु ध्येयम् अत्र जगति कोऽपि नियमो नास्ति यदुत यन्नित्यं तदनादिमदेव यच्चानादिमत्तन्नित्यमेवेति ||१५|| भव्यत्वमिवाऽकृतकमपि चानित्यं किञ्चित्तत्त्वं नामान्तरेणान्यैरपि मोक्षवादिभिर्वर्ण्यते तदुपदर्श्यते— Jain Education International एवं चैव दिदिक्खा भवबीजं वासणा अविजा य । सहजमलसद्दवच्चं वन्निज्ज‍ मुक्खवाईहिं ॥१६॥ अक्षरगमनिका — एवमेव दिदृक्षा भवबीजं वासनाऽविद्या च सहजमल इति शब्दवाच्यं वर्ण्यते मोक्षवादिभिरिति ।। १६॥ टीका — एवमेव यथानन्तरं भव्यत्वमकृतकमपि चानित्यं वर्णितं तथैव सांख्यैः शैवैर्बोद्धैर्वेदान्तिभिर्जेनैश्च यथाक्रमं दिद्दक्षा भवबीजं वासनाऽविद्या सहजमल इतिशब्दवाच्यं किञ्चित्तत्त्वम् अकृतमपि चानित्यं वर्ण्यते निरूप्यते मोक्षवादिभिः शुद्धात्मस्वरूपलाभवदनशीलैरिति ||१६|| अथ किंस्वरूपं तत्तत्त्वमित्याह— एयं पुण तह कम्पेयराणुसंबंधजोगयारूवं । सिद्धाणाभावणागम्मं ॥१७॥ एतदभावे णायं For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy