________________
विंशतिर्विशिकाः ] द्वितीया लोकानादित्वनामा
[ १३ अक्षरगमनिका-एतत् पुनस्तथाकर्मेतरानुसम्बन्धयोग्यतारूपम् । एतदभावे ज्ञातं सिद्धानाम् आभावनागम्यमिति ||१७||
टीका-एतत् सहजमलादिशब्दवाच्यं तत्त्वं पुनर्विशेषे यथा कर्म ज्ञानावरणीयादि पुद्गलरूपं तदितरो जीव एतदुभयोरनुसम्बन्धः परस्परं क्षीरनीरन्यायेन संयोगः स्यात् तथा जीवगतयोग्यतारूपं तथाकर्मेतरानुसम्बन्धयोग्यतारूपं समवसेयम् । एतदभावे सहजमलादिशब्दवाच्यानादिरागादिदोषाभावे ज्ञातं दृष्टान्तः सिद्धानां मुक्तात्मनाम् आभावनागम्यं समन्ताद् विचारणातो ज्ञेयम्, तथाहि-आत्मगतसंहजमल एव कर्मसम्बन्धयोग्यता । एतदभावे सिद्धानां न कर्मसम्बन्ध इति ।।१७।। ततः किमित्याह
इय असदेवाणाइयमग्गे तम आसि एवमाई वि।
भेयगविरहे वइचित्तजोगओ होइ पडिसिदं ॥१८॥ __ अक्षरगमनिका एवम् असदेवानादिकमग्रे तम आसीदेवमादिकल्पनाजालं भेदकविरहे वैचित्र्ययोगतो भवति प्रतिषिद्धम् ।। १८॥
टीका-एवम् अनन्तरोक्तरीत्या भवभावेषु हेतुभूते तथाकर्मेतरानुसम्बन्धयोग्यतारूपे तत्त्वे सिद्धे सति किमित्याह-असदेव शून्यमेव अनादिकम् आदिविरहितम् अग्रे प्राक् सृष्टेः तमः अन्धकार आसीत् अभवत्, श्रूयते च-"तम आसीत् तमसा गूढमग्रे प्रकेतम्", "ईसरेण कडे लोए", "सयंभुणा कडे लोए", "अण्डकृत जगत" एवमादि अनन्तरोक्तप्रभृतिकल्पनाजालम् अपिः समुच्चये प्रतिषिद्धं भवतीति सम्बन्धः। तथा भेदकविरहे सदसतोः शून्यसृष्ट्योः संसारमोक्षयोश्च विभेदकृदसदन्धकारादिव्यतिरिक्तकिञ्चित्तत्त्वाभावे सति वैचित्र्यं यथा कश्चिद्भवभावविनिर्मुक्तः, कश्चित् सुखसौभाग्यादिभाक् कश्चिच्च दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वल इत्यादि प्रत्यक्षानुभूयमानं वैविध्यं तेन योगात् सम्बन्धात् वैचित्र्ययोगतो हेतोः सृष्टिवादादिकल्पनाजालं प्रतिषिद्धं-प्रत्युक्तं भवति । यदि वा प्राकृतत्वेनाऽकारप्रश्लेषाद् भेदकविरहे वैचित्र्याऽयोगाद् जगद्वैचित्र्यस्याघटनाद् असत्कल्पनाजालं निरस्तं भवति। भेदकं विना न टेकस्यैव पदार्थस्य विभिन्नावस्थाद्वयमिति ||१८|| अपि च
भेयगविरहे तस्सेव तस्सऽभावत्तकप्पणमजुत्तं।
जम्हा सावहिगमिणं नीई अवही य णाभावो॥१६॥ अक्षरगमनिका-भेदकविरहे तस्यानन्तरोक्तसृष्टिकल्पनाजालस्येव तस्य जगतः अभावकल्पनमयुक्तम् यस्मात् सावधिकमिदं जगदभावत्वम् । नीत्याऽवधिश्च नाभावः ॥१६॥
टीका-भेदकविरहे-जीवकर्मसम्बन्धाभावे तस्य सृष्टिवादादिकल्पनाजालस्येव सादृश्ये तस्य जगतः अभावत्वकल्पनम् असत्त्वबुद्धिरपि अयुक्तं युक्तिशून्यम्, यस्मात् कारणात् सावधिकमिदं जगद् यदि वा सावधिकोऽयं जगदभावस्तथाहि-अमुककाले जगन्नासीद् अमुककाले चास्योत्पत्तिर्जाता। एवं सावधिको जगदभावः संजातः। नीत्या युक्त्या विचार्यमाणः अवधिश्च कालमर्यादा नाभावात्मकः, यतः अमुककाले जगन्नासीदित्यत्र कालः कः पदार्थः ? जीवाजीववर्तनारूप इति चेत् । तर्हि सिद्धं सदातनं जीवाजीवात्मकजगदस्तित्वमिति ||१६|| उपसंहरन्नाह
इय तन्तजुत्तिसिद्धो अणाइमं एस हंदि लोगो त्ति। इहरा इमस्सऽभावो पावइ परिचिंतियवमिणं॥२०॥
|| इति अनादिविंशिका द्वितीया ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org