SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तृतीया कुलनीतिलोकधर्माः [ विंशतिर्विंशिकाः अक्षरगमनिका — एवं तन्त्रयुक्तिसिद्धः अनादिमान् एष हन्त लोक इति । इतरथास्याभावः प्राप्नोति । परिचिन्तयितव्यमिदमिति ॥ २०॥ १४ टीका — एवम् अनन्तरोक्तरीत्या तन्त्रयुक्तिसिद्धः तन्त्रात् " जीवाणं भंते! केवइयं कालं अवट्टिया ? सव्वद्धं ।" (भ. श. ५ उ. ३८ सू. २२२) तथा न कर्तृत्वं न कर्माणि, लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं, स्वभावस्तु प्रवर्तते ॥ १ ॥ (गीता. अ. ५ श्लोक-१४) इत्यादिशास्त्रवचनात् प्रागुक्तयुक्तितश्च सिद्धो न्यायप्राप्तः अनादिमान् आदिविरहित एष प्रत्यक्षानुभूयमानो हन्त आमन्त्रणे लोकश्चराचररूप इतिः परिसमाप्तौ । इतरथा परमपुरुषोत्पादितोऽयं तमसो वोत्पन्नो लोक इत्याद्यभ्युपगमे परमपुरुषस्य कृतकृत्यत्वेन प्रयोजनाभावाद् उपादानाभावाच्च तथा भेदकविरहे केवलं तमसो जगद्वैचित्र्यानुपपन्नत्वाद् अस्य लोकस्य अभावो विरहः प्राप्नोति आपद्यते । स चानिष्ट एव दृष्टेष्टबाधितत्वात् । अतः सूक्ष्मेक्षिकया परिचिन्तयितव्यम् अन्वयव्यतिरेकाभ्यां भावनीयम् इदं लोकानादित्वमिति ॥ २०॥ ॥ इति द्वितीया लोकानादित्वविंशिका समाप्ता ||२|| तृतीया विंशिका कुलनीतिलोकधर्माः अनन्तरं लोकानादित्वं प्रसाध्याचार्यः अधुना लोके प्रवर्तमानान् कुलनीतिधर्मान् प्रदर्शयतिइत्थ कुलनीइधम्मा पाएण विसिट्ठलोगमहिकिच्च । आवेणिगाइरूवा विचित्तसत्थोइया चेव ॥१॥ अक्षरगमनिका - अत्र कुलनीतिधर्माः प्रायेण विशिष्टलोकमधिकृत्याऽऽवेणिकादिरूपा विचित्रशास्त्रोदिताश्च सन्ति ॥ १ ॥ टीका — अत्र प्राणिलोके कुलनीतिधर्माः कुलानि इक्ष्वाकुप्रभृतीनि तेषां नीतयः प्रचलिताचारास्ते च धर्माः शास्त्रोक्ताश्च प्रायेण बाहुल्येन विशिष्टलोकं प्रमुखजनसमुदायम् अधिकृत्य समाश्रित्य द्वेधा सन्तीति शेषः, तथाहि— आवेणिकादिरूपाः विचित्रशास्त्रोदिताश्च आङ्मर्यादयाऽभिविधौ वा वेणिरेव वेणिका केशग्रथनं प्रायः प्रातः स्त्रीणां प्रथममेव कृत्यं यतो मुक्तकेशी स्त्री प्रायः अपशकुनबुद्ध्या गृह्यते, यदि वा वेणिकेवाऽनवच्छिन्नप्रवाहतः प्रवृत्ता आचारास्त आदौ येषां दीपकदानादिरूपाणां ते तथा, विचित्राणि वेदस्मृत्यादीनि शास्त्राणि तत्रोदिता निर्दिष्टा धर्माश्चेति ||१|| अनन्तरोक्तेषु वेणिसम्प्रदायानाह — जे वेणिसंपयाया चित्ता सत्थेसु अपडिबद्ध त्ति । ते तम्मज्जायाए सव्वे आवेणिया नेया ॥ २ ॥ अक्षरगमनिका ये वेणिसम्प्रदायाश्चित्राः शास्त्रेष्वप्रतिबद्धा इति ते तन्मर्यादया सर्वे आवेणिका ज्ञेयाः ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy