SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विंशिकाः ] तृतीया कुलनीतिलोकधर्माः [ १५ टीका-ये अनिर्दिष्टनामानो वेणिसम्प्रदायाः परम्परातः प्रवृत्तव्यवहाराः चित्रा विविधाः शास्त्रेषु सिद्धान्तग्रन्थेषु अप्रतिबद्धा विधिनिषेधद्वारेणाऽनिर्दिष्टा इति हेतोस्ते कुलनीतिधर्मास्तन्मर्यादया सम्प्रदायप्रथातः सर्वे निखिला व्यवहारा आवेणिका अनवच्छिन्नप्रवाहतः प्रवृत्ताः ज्ञेयाः समवसेया इति ॥२।। तान् कतिपयान् नामनिर्देशमाह जह संझाए दीवयदाणं सत्थं रविम्मि विद्धत्थे। सुद्धग्गिणो अदाणं च तस्स अभिसत्थपडियाणं॥३॥ अक्षरगमनिका-यथा सन्ध्यायां दीपकदानं शस्तं रवौ विध्वस्ते शुद्धाग्नेरदानं च तेषामभिशास्त्रपतितानाम् ॥३॥ टीका-यथा निर्देशे सन्ध्यायां दिनान्ते दीपकदानं प्रदीपप्रज्वालनम् इष्टदेवतादिसन्मुखं सामान्यतो वा शस्तं प्रशंसाऽऽस्पदं खौ सूर्ये विष्वस्तेऽस्तङ्गते सति, तस्य रात्रौ लोकव्यवहारहेतुत्वात् सहजविवेकात्मकप्रकाशप्रतीकत्वाच्च। उक्तं च प्रदोषे मृद्गृहं त्यक्त्वा, बाला यान्ति गृहे यथा। दृष्ट्वा जीवनसन्ध्याञ्च, सुज्ञाः स्वात्मगृहं प्रति ।।१।। किञ्च-शुद्धाग्नेः अभिमन्त्रितयज्ञाग्नेर्निधूमाग्नेर्वा अदानम् अप्रयच्छनं चः समुच्चये प्रशस्तं केषां ? तेषां प्राकृतत्वाद्वचनव्यत्ययः अभिशाखपतितानां शास्त्रसन्मुखात्मनां धार्मिकाणां वह्नेः सकलसत्त्वोपघातकत्वेन प्रबलशस्त्रत्वात्। अयं भावः-धार्मिकगृहस्थानां सन्ध्यायां दीपकदानं शुद्धाग्नेश्चाऽदानं प्रशस्तमिति ।।३।। अपि च नक्खत्तमंडलस्स य पूजा नक्खत्तदेवयाणं च। गोसे सइसरणाइ य धनाणं वंदणा चेव ॥४॥ अक्षरगमनिका-नक्षत्रमण्डलस्य च नक्षत्रदेवतानां च पूजा प्रभाते सतीस्मरणादि च धन्यानां वन्दना च ॥४॥ टीका-नक्षत्रमण्डलस्य अश्धिन्यादिबिम्बस्य चः समुच्चये नक्षत्रदेवतानां अश्चियमाग्न्यादिदेवतानां च पूजाऽर्चा प्रातः प्रभातवेलायां सतीस्मरणादि सीतादिमहासतीनां स्मरणवन्दनादि चः समुच्चये धन्यानां धर्मधनानां महापुरुषाणां च विषये वन्दना चः समुच्चये प्रशस्तेत्यनुवृत्तेः ।।४।। किञ्च गिहदेवयाइसरणं वामंगुट्ठयनिवीडणा चेव। असिलिट्ठदंसणम्मी तहा सिलिट्टे य सिरिहत्थो॥५॥ अक्षरगमनिका-गृहदेवतादिस्मरणं वामाङ्गुष्ठनिपीडना चाश्लिष्टदर्शने तथा श्लिष्टे च • श्रीहस्तः ।।५।। टीका-प्रभात एव विबोधावसरे गृहदेवतादिस्मरणं कुलदेवताधर्मदातृगुर्वादिस्मरणम्, उक्तं च-सरेइ सो सकुलधम्मनियमाई, तथाहि-कोऽहं का मम जाई, किं च कुलदेवया च के गुरुणो। को मह धम्मो के वा; अभिग्गहा का अवस्था मे ।।१।। इच्चेव सम्मं अणुपासमाणो अणागयं णो पडिबंधं कुज्जा । किञ्च-वामाङ्गुष्ठनिपीडना सव्याङ्गुष्ठावमर्दनं चः समुच्चये अश्लिष्टदर्शने मार्जाराद्यप्रशस्तसत्त्वावलोकने सति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy