________________
१६] तृतीया कुलनीतिलोकधर्माः
[विंशतिर्विशिकाः तथा च दुर्निमित्तोपधातः स्यादिति । तथा समुच्चये प्रभात एव श्लिष्टे प्रशस्ते पदार्थे दृष्टे सति श्रीहस्तः श्रीप्रकाशकदक्षिणहस्तदर्शनं प्रशस्तं यदि वा सदैव प्रातर्जागरणे स्वस्वेष्टदेवतादिनमस्कारपूर्वकं पुण्यप्रकाशकदक्षिणहस्ततलदर्शनं प्रशस्तमिति ।।५।। उक्तं लौकिकनित्यकृत्यमधुना प्रासङ्गिकमाह
बालाणं पुण्णनिरूवणाइ चित्तप्पहेणगाईहिं।
सत्यंतरेहिं कालाइभेयओ वयविभागेणं ॥६॥ अक्षरगमनिका बालानां पुण्यनिरूपणादीनि चित्रप्रहेलकादिभिः शास्त्रान्तरैश्च कालादिभेदतो वयोविभागेन च ॥६॥
टीका-बालानाम् अव्यक्तवयसां शिशूनां पुण्यनिरूपणादीनि शुभाशुभभाविभावपरीक्षणनियोजनादीनि कैः ? सुहृत्स्वजनसम्बन्धिबन्धुवर्गाद् उपहाररूपेणाऽऽगतैः चित्रपहेलकादिभिः विविधमिष्टान्नादिखाद्यपदार्थक्रीडनकादिभिर्वक्ष्यमाणरीत्या तथा शास्त्रान्तरैः सामुद्रिकज्योतिष्कादिशास्त्रैर्जातकजन्मसमये सूर्यादिग्रहाणां स्थित्या जातकाङ्गे च विद्यमानलक्षणव्यञ्जनादिभिः, किञ्च-कालादिभेदतः कालक्षेत्रद्रव्यादिभेदतः, तथाहिकलोपार्जने शैशवकाले विनयादिहेतुभिः, धनार्जने प्रथमत एव रत्नादिवाणिज्ये साफल्यतः, क्षेत्रतो ग्रामनगरादौ, भावतश्च न्यायसत्यभाषणादिभिस्तथा वयोविभागेन शैशवाद्यवस्थाभेदेन च कलाधनधर्मोपार्जनादिभिः पुण्यनिरूपणादि क्रियते। उक्तं च
प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् ।
तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ।।१।।६।। कथं निरूप्यत इत्याह
तप्परिभोगेण तहा थाणे परदाणजातजुत्तेण। ।
चित्तविणिओगविसया डिंभपरिच्छा य चित्त ति॥७॥ अक्षरगमनिका तत्परिभोगेन तथा स्थाने परदानयातयुक्तेन चित्रविनियोगविषया डिम्भपरीक्षा च चित्रेति ॥७॥
टीका-तस्य पहेलकादेः परिभोगेन भोगोपभोगेन यथा प्रथमग्रासे हि तन्मध्ये भाग्यपरीक्षार्थं निक्षिप्तनिष्कादिप्राप्त्या भाग्यपरीक्षा तथा समुच्चये भोगोपभोगात् प्राक् स्थाने समुचितपात्रे परदानयातयुक्तेन परस्मै दानं यदि वा परस्य श्रेष्ठवस्तुनो दानं तस्मै यातं गमनं यदि वा सामान्यतो गजगत्यादिना च तेन युक्तेन परिभोगेनौचित्यौदार्यादिगुणपरीक्षा विधीयते। किञ्च-चित्रविनियोगविषया विविधशस्त्रशास्त्रधनकनकादिवस्तूनां मध्यात्कस्यचिद्ग्रहणात् शौर्यपाण्डित्यवाणिज्यादिविनियोगविषया चित्तविन्याराविषया वा डिम्भपरीक्षा डिम्भानां बालानां परीक्षा चः समुच्चये चित्रा बहुविधा क्रियत इतिः समाप्तौ ।।७।। अथ दुहितॄणां पुण्यनिरूपणं प्रदर्श्यते।
वीवाहकोउगेहिं रइसंगमसत्तमद्दणाईहिं३।
धूयाणं पुण्णनिरूवणं च विविहप्पओगेहिं ॥८॥ अक्षरगमनिका-विवाहकौतुकै रतिसङ्गमसक्तमर्दनादिभिर्दुहितॄणां पुण्यनिरूपणं च विविधप्रयोगैः क्रियत इति शेषः ||८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org