________________
विंशतिर्विशिकाः ] तृतीया कुलनीतिलोकधर्माः
[ १७ टीका-विवाहकौतुकैः पाणिपीडनात् प्राक् क्रियमाणैः कौतुकैर्माङ्गल्यैः कीदृशैः ? रतिसंगमसक्तमर्दनादिभी रतिसङ्गमः सांसारिकसुखं तस्य सूचकं सक्तम् अनुषक्तं दुहितृदेहदेशे मर्दनं पिष्टातकचूर्णादिनोद्वर्तनम् आदौ येषां स्नपनविलेपनाङ्गरागतिलककज्जलरक्षाबन्धनादीनां तानि तथा तैर्दुहितॄणां कन्यानां पुण्यनिरूपणं पूर्ववद् विधीयते चः समुच्चये भिन्नक्रमश्च विविधप्रयोगैश्च नानाप्रकारैः तथाहिपूर्वोक्तचित्रप्रहेलकादिभिः शास्त्रान्तरैश्च ।।८।। अथ स्त्रीणामावेणिकं धर्ममाह
भोगे भावट्ठवणं भावेणाराहणं च दइयस्स ।
मलपुरिसुज्झ अणुबरिमंतेणं सीलरक्खा य॥६॥ अक्षरगमनिका-भोगे भावस्थापनं भावेनाराधनं च दयितस्य मलपुरीषोज्झः अनुव्रतामन्त्रेण शीलरक्षा च ||६||
टीका-भोगे संभोगे भावस्थापनं पुत्रोत्पत्तिहेतुरेवायं भोगः अन्यथा सकृद् रतिसङ्गमेऽसङ्ख्येयसत्त्वोपर्मदनाद् विपाकदारुणः । उक्तं च
खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा।
संसारमुक्खस्स विपक्खभूया; खाणी अणत्थाण य कामभोगा ।।१।। इति भावस्य स्थापनम्। तथा-भावेन निर्व्याजेन आराधनं च चित्तानुवर्तनं कस्य ? दयितस्य पत्युः। किञ्च-रोगाद्यवस्थायां पत्युरेव मलपुरीषोज्झः मूत्रविडादेर्दामादेर्बहिरुत्सर्गः। अपि च-अनुव्रतामन्त्रेण पतिव्रतासत्कमन्त्रजापेन शीलरक्षा, स्त्रीणां शीलमेव सर्वस्वमिति। चः समुच्चये ||६|| किञ्च
पहायपरिण्णाजलभुत्तपीलणं, वसणसणचाओ।
वेलासु अ थवणाई थीणं आवेणिगो धम्मो॥१०॥ अक्षरगमनिका-स्नातपरिज्ञाजलभुक्तपीडनं व्यसनदर्शनत्यागो वेलासु च स्तवनादीनि स्त्रीणामावेणिको धर्मः ॥१०॥
टीका-स्नातपरिज्ञाजलभुक्तपीडनं स्नातं शौचं देशसर्वभेदतश्च परिज्ञा तप इत्यादि। अथवा प्राकृतत्वात् पदव्यत्यय इति प्रतिज्ञापूर्वकम् अवश्यंभावेन स्नाता सतीत्यनेन ऋतुकाले गृहकार्यनिषेधः अवसेयः। यदि वा णिजन्तात् पत्युरेव स्नपनं जलपानं भोजनं पीडनं शरीरसम्बाधनं चाऽऽराधनार्थं कर्तव्यमिति शेषः। तथा–व्यसने कारागृहादिव्यापदि दयितस्य दर्शनत्यागः साक्षात्कारवर्जनम्। आपदि परस्परदर्शने चाधिकदुःखसंभवात् तत्र कारादौ च दुष्टक्रूरसत्त्वबाहुल्येन स्वशीलव्यापत्तेश्च । किञ्च- वेलासु अवसरेष स्तवादीनि स्तवनं स्ततिः परमात्मभक्तिप्रसडेष गीतं वा विवाहोत्सवेष आदौ येषां नत्यादीनां तानि स्त्रीणां महिलानाम् आवेणिकः पूर्वोक्तस्वरूपो धर्म इति ।।१०।। अथ शास्त्रोक्तान् धर्मानाह
सत्थभणिया य अन्ने वण्णासमधम्मभेयओ नेया।
वण्णा उ बंभणाई तहासमा बंभचेराई ॥११॥ अक्षरगमनिका-शास्त्रभणिताश्चान्ये वर्णाश्रमभेदतो ज्ञेयाः। वर्णास्तु ब्राह्मणादयस्तथाऽऽश्रमा ब्रह्मचर्यादयः ।।११॥
टीका-शास्त्राणि मनुस्मृत्यादीनि तत्र भणिता उपदिष्टाः शास्त्रभणिताश्चः समुच्चये अन्ये उक्तशेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org