SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १८ ] तृतीया कुलनीतिलोकधर्माः [ विंशतिर्विंशिकाः धर्मा वर्णाश्चाश्रमाश्च वक्ष्यमाणास्तेषां भेदतो विभागतो वर्णाश्रमधर्मभेदतो ज्ञेयाः समवसेयाः । वर्णास्तु ब्राह्मणादयो ब्राह्मणक्षत्रियवैश्यशूद्रभेदाच्चत्वारस्तथाऽऽश्रमा अपि बह्मचर्यादयो ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसन्यासरूपावस्थाविशेषाच्चत्वार एव बोद्धव्याः । उक्तं च मनुस्मृतौ — अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥ अ० १ - ८८ ।। प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । अ. १-६८ ॥ पशूनां रक्षणं दानमिज्याध्ययनमेव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च || ६० || एकमेव तु शुद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ६१ ॥ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ।। चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ यो दत्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ।। एषामेव धर्माणां फलमनुबन्धं चाह— धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि संम्भूतो दहत्येव हुताशनः ॥ १ ॥ एए ससत्यसिद्धा धम्मा जयणाइभेयओ चित्ता । अब्भुदयफला सव्वे विवागविरसा य भावेणं ॥१२॥ अक्षरगमनिका — एते स्वशास्त्रसिद्धा धर्मा यतनादिभेदतश्चित्रा अभ्युदयफलाः सर्वे विपाकविरसाश्च भावेन ||१२|| टीका — एते अनन्तरोक्ता वर्णाश्रमभेदतः स्वशास्त्रसिद्धाः श्रुतिस्मृत्यादिप्रसिद्धा धर्मा यतनादिभेदतः स्थूलजीवहिंसादिवर्जनारूपयतनातारतम्येन चित्रा विविधाः । किंफला एते ? अभ्युदयफला राज्यादिप्राप्तिफलाः सर्वे निखिलाः। अथानुबन्धमाह - विपाकविरसा विपच्यमाना विरसाः कटुफला किंपाकफलवत् विपाकदारुणाः चो विशेषे भावेन परमार्थतो भवाभिष्वङ्गप्राधान्यादिति । उक्तं च ननु विपाकविरसा अपि कथमभ्युदयफला एत इत्याह अ. १. अ. 9. पयई सावजा वि हु तहा वि अब्भुदयसाहणं नेया । जह धम्मसालिगाणं हिंसाई तहऽत्थहेउ त्ति ॥१३॥ Jain Education International अ. २-७१ अ. ४-१ अ.-६-२ (यो. दृ. स. श्लो. १५८) | १२ || अ. - ६-३६ ॥११॥ अक्षरगमनिका —— प्रकृत्या सावद्या अपि खलु तथाप्यभ्युदयसाधनं ज्ञेया यथा धर्मशालिनां हिंसादयस्तथाऽर्थहेतुरिति ॥ १३ ॥ For Private & Personal Use Only टीका — न केवलं निरवद्याः प्रकृत्या स्वभावेनैते यागादिधर्माः सावया हिंसादियुता अपि हु प्राकृतत्वादवधारणे भिन्नक्रमश्च तथापि अभ्युदयसाधना राज्यादिप्रापका एव ज्ञेया अवगन्तव्या यथा दृष्टान्ते धर्मशालिनां श्रमणोपासकानां जिनभवननिर्माणपूजादानादिगता हिंसादयः स्वरूपतः प्राणातिपातपरिग्रहप्रभृतयो www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy