________________
[ १६
विंशतिर्विशिकाः ]
तृतीया कुलनीतिलोकधर्माः दुष्टाशयाभावात् तथार्थहेतुः अभ्युदयाय हेतुः कारणमितिः समाप्तौ। उक्तं च
इष्टापनि कर्माणि लोके चित्राभिसन्धितः।
नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ।।।१।। (यो. दृ. स. ११३)॥१३॥
अथ श्रमणोपासकानां संज्ञानप्राधान्येन पारम्पर्यतोऽपवर्गसाधकत्वात जिनपजादानादिगता हिंसा अभ्युदयसाधना अपि न विपाकविरसास्तर्हि किमर्थं लौकिकानां यागादिगता हिंसादयस्तथेत्याशङ्कयाह
मोहपहाणे एए वेरग्गं पि य इमेसि पाएण।
तग्गन्भं चिय नेयं मिच्छाभिनिवेसभावाओ॥१४॥ अक्षरगमनिका-मोहप्रधाना एते वैराग्यमपि चैषां प्रायस्तद्गर्भमेव ज्ञेयं मिथ्याभिनिवेशभावात् ||१४||
टीका-मोहप्रधाना अज्ञानपुरस्सरा एते लौकिकधर्मानुष्ठातारो वैराग्यमपि भवनिर्वेदोऽपि चः समुच्चये एषां लौकिकानां प्रायेण बाहुल्येन तद्गर्भमेव मोहगर्भमेव ज्ञेयं बोद्धव्यं मिथ्याभिनिवेशभावाद् असद्ग्रहभावात् । तत एवैषां यागादिगता हिंसादयो विपाकविरसा इति । उक्तं च-यूपं छित्त्वा पशुं हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं प्राप्यते स्वर्गो, नरके केन गम्यते ?।।१४।। नन्वेवमधर्मेऽपि धर्मबुद्धिः कथमिति चेदुच्यते
अनेसि तत्तचिंता देसाणाभोगओ य अन्नेसिं।
दीसंति य जइणो वित्थ केइ संमुच्छिमप्पाया ॥१५॥ अक्षरगमनिका-अन्येषां तत्त्वचिन्ता मिथ्याभिनिवेशभावाद् देशानाभोगतश्चान्येषाम् । दृश्यन्ते च यतयोप्यत्र केचित्सम्मूर्छिमप्रायाः ।। १५॥
टीका-अन्येषां स्वव्यतिरिक्तानां लौकिकानां मिथ्याभिनिवेशभावादित्यस्यानुवृत्तेः का? तत्त्वचिन्ता जीवाजीवादितत्त्वविभावनम्। अन्येषाम् अपरेषां पतञ्जलिप्रभृतीनां देशानाभोगत आंशिकानुपयोगात् चः समुच्चये तत्त्वचिन्ता। अथवाऽन्येषां तत्त्वचिन्ता देशतो न सर्वतः अपरेषां पुनः अनाभोगात् । न केवलं लौकिका एव तत्त्वचिन्तारहिता दृश्यन्ते विलोक्यन्ते चः पुनरर्थे यतयोऽपि स्वयूथ्या अपि अत्र तत्त्वचिन्तायां केचिद् न सर्वे सम्मूर्छिमप्राया वर्षाभूतुल्या मनोव्यापारशून्या अन्तर्ज्ञानशक्तिविकला इति यावत् ।। अत एव दुर्निवारा गच्छभेदाः। उक्तं च
कामरागस्नेहरागाविषत्करनिवारणौ। दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ।।१।।।।१५।। उक्ता वर्णाश्रमाणां धर्माः। साम्प्रतं देशादिभेदात् धर्मानाह
अने उ लोगधम्मा पहुया देसाइभेयओ टुति।
वारिजसोयसूयगविसया आयारभेएण॥१६॥ __ अक्षरगमनिका अन्ये तु लोकधर्मा प्रभूता देशादिभेदतो भवन्ति विवाहशौचसूतकविषया आचारभेदेन ।।१६।।
टीका-अन्ये उक्तशेषाः तुर्विशेषे लोकधर्मा लौकिकाचाररूपेणाऽऽसेवनपरिहाररूपाः प्रभूता बहवो देशादिभेदतो देशकुलजातिप्रभृतिभेदाद् भवन्ति सन्ति विवाहशौचसूतकविषया विवाहो ब्राह्मादिभेदादष्टधा दारपरिग्रहश्च शौचः स्नानक्षौरकर्मादिश्च सूतकं जन्मादिनिमित्तोत्पन्नाऽशौचश्च विवाहशौचसूतकानि विषयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org