________________
विंशतिर्विंशिकाः ] द्वितीया लोकानादित्वनामा
[११ एवानाशयनिमित्तभावरूपश्चेतन आत्मा यस्य स तन्मयचेतनः, तथाभूतश्चासौ कल्पः समर्थ इति तन्मयचेतनकल्पः। 'तम्मयवेयणकप्पो' इति पाठान्तरमाश्रित्य कर्मजन्यसुख-दुःखादिवेदनाभावात् अन्याशयनिमित्तभाववेदनकल्पः स भगवान् तथास्वभावः अनाशयनिमित्तभावस्वभाव एव खुः प्राकृतत्वादवधारणे। अयमर्थ :--रागद्वेषादिरहिततया निमित्तभावस्वभावात् तस्य भगवतो गुणदोषौ न भवत इति ।।१०।। अत्रार्थे दृष्टान्तमाह
रयणाई सुहरहिया सुहाइहेऊ जहेव जीवाणं।
तह धम्माइनिमित्तं एसो धम्माइरहिओ वि॥११॥ अक्षरगमनिका-रत्नादयः सुखरहिताः सुखादिहेतव एव यथा जीवानां तथा धर्मादिनिमित्तम् एष भगवान् धर्मादिरहितोऽपि ॥११॥
टीका-रत्नादयः चिन्तामणिकामकुम्भादयः सुखरहिता अनुकूलसंवेदनशून्या अपि सुखादिहेतवः अनुकूलप्रतिकूलसंवेदनकारणानि भवन्तीति शेषः, यथा यद्वद् एवकारोऽवधारणे भिन्नक्रमश्च जीवानां सत्त्वानां तथा तद्वदेव धर्मादिनिमित्तं पुण्यपापहेतुर्भवति एष मुक्तो भगवान् धर्मादिरहितः पुण्यपापकर्मशून्यः अपि, आस्तां भवस्थो भगवान् धर्मादिसहित इत्यपिशब्दार्थः ।।११।। अनन्तरोक्तभवस्थभगवद्वार्तामसहमानः पर आह
एसो अणाइमं चिय सुद्धो य तओ अणाइसुधुत्ति।
जुत्तो य पवाहेणं, न अनहा सुद्धया सम्मं॥१२॥ अक्षरगमनिका-एष भगवान् अनादिमान् शुद्धश्च । आचार्य आहसः अनादिशुद्ध इति हेतोर्युक्तश्च प्रवाहेण, नान्यथा शुद्धता सम्यक् ।।१२।।
टीका-एषः अस्मदभिमतो भगवान् स्वयंभूः अनादिमान आदिरहितः शुद्धश्च। आचार्य आह—तको भवदभ्युपगतो भगवान् अनादिशुद्ध आकालं रागादिदोषविरहित इति हेतोः स उक्तस्वरूपो भवभावविनिर्मुक्तो युक्तो युक्त्या घटमानः चो विशेषे प्रवाहेण पारम्पर्येण समष्टिसव्यपेक्षः, न नैव अन्यथा व्यक्तितः अनादिशुद्ध इति। उक्तं च-इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृताः।
निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथाऽपरे ||१|| ____ एवं प्रवाहतः अनन्तमुक्तात्मापेक्षयाऽनादिमत्त्वं शुद्धत्वं चोपपद्यते, न तु कञ्चिदेकं विवक्षितमात्मान माश्रित्यानादित्वं शुद्धता शुद्धत्वं च सम्यग् घटामाटीकेतेति ।।१२।। अत्रार्थे दृष्टान्तमाह
बंधो वि हु एवं चिय अणाइमं होइ हंत कयगो वि।
इहरा उ अकयगत्तं निबत्तं चेव एयस्स॥१३॥ अक्षरगमनिका-बन्धोऽपि खल्वेवमेवानादिमान् भवति हन्त कृतकोऽपि। इतरथा त्वकृतकत्वं नित्यत्वं चैतस्य स्यादिति ।।१३।।
टीका-न केवलमेष भगवान् प्रवाहतः अनादिमान् बन्धः जीवकर्मसम्बन्धोऽपि हु: प्राकृतत्वान्निश्चयार्थः अवश्यम् एवं प्रवाहत एवानादिमान आदिविरहितो भवति जायते हन्त आमन्त्रणे कृतको जन्यः अपि। इतरथा प्रवाहतो बन्धस्याऽनादित्वानभ्युपगमे तुर्विशेषे किं ? अकृतकत्वम् अजन्यत्वं नित्यत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org