SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] प्रथमाऽधिकारविंशिका [ ५ अक्षरगमिनिका ——अधिकारसूचना खलु प्रथमा विंशिका १ । लोकाऽनादित्वमेव बोद्धव्यमिति द्वितीया विंशिकार । कुलनीतिधर्मास्तृतीयायां विंशिकायामिति ३ । एवमग्रेऽपि विंशिकाक्रमोऽवसेयः, तथाहि — शुद्धोऽपि च धर्मश्चरमपरिवर्ते४ । 'चरमपरियट्टे' इति पाठः सम्भाव्यते ॥ ११॥ तद्बीजादिक्रमोऽपि च तदा शुद्धधर्मः अवसेय इति५ । स पुनः सम्यक्त्वमेव विज्ञेय इति६ । दानविधिश्चेति७ । ततः खलु परमो पूजाविधिरेवेति८ ||१२|| श्रावकधर्मश्चेति । ततस्तत्प्रतिमाश्च भवन्ति बोद्धव्यास्तदा श्रावको ग्राह्य इति १० । यतिधर्म इति ११ । अतः पुनर्द्विधा शिक्षा चैतस्य यतेरिति १२||१३|| यतेरेव भिक्षाया विधिः शुद्ध इति १३ । तदन्तरायाश्च शुद्धिलिंङ्गान्तास्तदा भिक्षा बोद्धव्येति १४ । तत आलोचनाविधानमिति १५ ।। प्रायश्चित्तानि शुद्धिभावश्चेति१६ ।।१४।। ततो योगविधानमिति १७ । केवलज्ञानं च सुपरिशुद्धमिति १८ । सिद्धविभक्तिः सिद्धानां भेदा इति १६ । तथा तेषां सिद्धानामेव परमं सुखमिति २० ||१५|| एता गाथा निगदसिद्धा इति टीका न वितन्यते । अर्थाधिकारानाश्रित्यैवाह— एए इहाहिगारा वीसं वीसाहि चेव गाहाहिं । फुडवियडपायडत्था नेया पत्तेयपत्तेयं ॥१६॥ अक्षरगमनिका — एत इहाधिकारा विंशतिः प्रत्येकं प्रत्येकं विंशत्यैव गाथाभिः स्फुटविकटप्रकटार्था ज्ञेयाः ॥ १६ ॥ टीका — एते अनन्तरोक्ता अधिकारा इह प्रस्तुतग्रन्थे सङ्ख्यया विंशतिरवसेयाः । ते च प्रत्येकं प्रत्येकं विंशत्यैव न न्यूनाधिकाभिर्गाथामिः स्फुटो विशदश्च विकटः स्पष्टश्च प्रकटो व्यक्तश्चेति एकार्था वै स्फुटविकटप्रकटः अर्थो येषां ते स्फुटविकटप्रकटार्था अधिकारा अर्थाधिकारा ज्ञेया अवसेया इति ॥ १६ ॥ एवंविधाधिकारश्रवणफलमाह एए सोऊण बुहो परिभावंतो उ तंतजुत्तीए । पाएण सुद्धबुद्धी जायइ सुत्तस्स जोग्ग त्ति ॥१७॥ अक्षरगमनिका — एतानधिकारान् श्रुत्वा शुद्धबुद्धिर्बुधस्तन्त्रनीत्या परिभावयन् प्रायो जायते सूत्रस्य योग्य इति ॥ १७ ॥ टीका — एतान् अनन्तरोक्तान् स्फुटविकटप्रकटार्थानधिकारान् श्रुत्वा निशम्य शुद्धा निर्दोषा बुद्धिर्मेधा यस्य स शुद्धबुद्धिर्बुधः पण्डितः परिभावयन् मुहुर्मुहुरनुप्रेक्षमाणस्तुर्विशेषे तन्त्रयुक्त्या शास्त्रनीत्या न तु स्वमनीषिकया प्रायो बाहुल्येन जायते निष्पद्यते सूत्रस्य श्रीजिनागमस्य योगमर्हतीति योग्यः अध्ययनाधिकारीति ।। १७|| अथ सूत्रस्य योग्यानुपदिशन्नाह Jain Education International मज्झत्थयाइ नियमा सुबुद्धिजोएण अत्थियाए य । नज्जइ तत्तविसेसो न अन्नहा इत्थ जइयव्वं ॥ १८ ॥ अक्षरगमनिका —— मध्यस्थतया शुद्धबुद्धियोगेनाऽर्थितया च नियमात्तत्त्वविशेषो ज्ञायते, नान्यथा तस्मादत्र यतितव्यमिति ॥ १८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy