________________
६ ]
प्रथमाऽधिकारविंशिका
[ विंशतिर्विशिकाः टीका- मध्यस्थतया नियमाद् रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थो निष्पक्षस्तस्य भावो मध्यस्थता तया अवश्यंतयाऽस्य ज्ञायत इत्यनेन सम्बन्धः, शुद्धबुद्धियोगेन शुद्धा बुद्धिः शुद्धबुद्धिस्तया योगः सम्बन्धः शुद्धबुद्धियोगस्तेन च तथा अर्थितया अर्थयते अभिलषत इत्यर्थी तस्य भावः अर्थिता तया चः समुच्चये नियमात् ज्ञायते अवबुध्यते किमित्याह -- तत्त्वविशेषः, तस्य जीवाजीवादेर्भावः स्वरूपं तत्त्वं तस्य विशेषो भेदप्रभेदादिरिति नान्यथा— नैव रक्तद्विष्टमूढत्वानर्थितया । तस्माद् अत्र मध्यस्थतादौ गुणत्रये यतितव्यं चेष्टितव्यं परिशीलनीयमिति यावत् ॥ १८ ॥ अपि च--- यदि वानन्तरोक्तगुणत्रयप्राप्त्युपनिषदमाहगुणगुरुसेवा सम्मं विणओ तेसिं तदत्थकरणं च । साहूणमणाहाण य सत्तणुरूपं निओगेणं ॥ १६ ॥
अक्षरगमनिका — गुणगुरुसेवा सम्यग् विनयस्तेषां तदर्थकरणं च साधूनामनाथानां च शक्त्यनुरूपं नियोगेन कर्तव्यमिति शेषः ||१६||
टीका — गुणैर्हितोपदेशप्रदानादिभिर्गुरवः अथवा तत्त्वं गृणन्तीति गुरवो यदि वा शीलाङ्गरथरथाङ्गतुम्बभूतब्रह्मचर्यपालनोपार्जितपुण्यप्राग्भारेण गुरवः, उक्तं च
व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् ।
तजन्य पुण्यसंभार - संयोगाद् गुरुरुच्यते ॥१॥
गुणगुरुसेवा गुणगुरवस्तेषां सेवा चित्तानुवर्तनं तथा सम्यग् अवितथं विनयः अभ्युत्थानादिस्तेषां गुरूणामेव । किञ्च तेषां गुरूणाम् अर्था प्रयोजनानि प्रतिलेखनादीनि तेषां करणं तदर्थकरणं चः समुच्चये । अपि च-- निर्वाणसाधकान् योगान् साधयन्तेऽनिशमिति साधवः, उक्तं च
निर्वाणसाधकान् योगान्, यस्मात् साधयतेऽनिशम् । समश्च सर्वभूतेषु, तस्मात् साधु- रुदाहृतः ॥ १ ॥
क्षान्त्यादिगुणसम्पन्नो, मैत्र्यादिगुणभूषितः अप्रमादी सदाचारे, भावसाधुः प्रकीर्तितः ॥ २ ॥
उक्तस्वरूपाः साधवस्तेषां साधूनां तथा न विद्यते योगक्षेमकारी नाथो येषां ते अनाथास्तेषाम् अनाथानां चः समुच्चये अर्थकरणमित्यस्यानुवृत्तिः समवसेया शक्त्यनुरूपं यथासामर्थ्यं नियोगेन आवश्यकतया विधेयमितिशेषः।।१६।। अनन्तरोक्तस्य गुणगुरुसेवादेः फलमाह—
भव्वस्स चरमपरियट्टवत्तिणो पायणं परं एयं ।
एसो वि य लक्खिज्जइ भवविरहफलो इमेणं तु ॥ २०॥
अक्षरगमनिका - भव्यस्य चरमपरिवर्तवर्तिनो प्रापणं पावनं पाचनं वा परमेतत् - गुणगुरुसेवादि तथा एषोऽपि लक्ष्यते भवविरहफलः अनेन गुणगुरुसेवादिना तु ॥ २० ॥
Jain Education International
टीका — भव्यस्य मुक्तिगमनयोग्यस्य महात्मनः, पुनः कीदृश: ? चरमपरिवर्तवर्तिनः चरमः अन्तिमः परिवर्तः पुद्गलपरावर्तः तन्त्रप्रसिद्धः अनन्तोत्सर्पिणीप्रमाणस्तस्मिन् वर्तमानस्तस्य प्रापणं ज्ञानादेः पावनं शोधनं वाऽऽत्मगुणानां पाचनं वा भवस्थितेः परिपाकहेतुत्वात् परं सर्वोत्कृष्टं एतत् अनन्तरोक्तं गुणगुरुसेवादि । एष भव्योऽपि चः पादपूर्तौ लक्ष्यते ज्ञायते भवविरहफलः भवः चतुर्गतिभ्रमणस्वरूपतस्य विरहो वियोग एव फलं यस्य स तथा मुक्तिगामीत्यर्थः अनेन गुणगुरुसेवादिनैव तुरवधारणार्थः । भावार्थस्त्वयम् चरमावर्ते
For Private & Personal Use Only
www.jainelibrary.org