________________ 10 150 विमलप्रभायां [लोकधातुउ(दुोपरि पूर्वोक्ताः सार्धभागे भूमिवृत्ताः, कमलरथस्य भवति; नन्दिभेदैरिति नन्दिरथभेदे चतुरस्रा मही भवति / एवमुक्तक्रमेण साधारं चक्रमानं तुरगरथस्य सार्धहस्तं भवति; तुरगरथस्य मानात् द्विधामानं गजरथस्य भवति, चक्रपीठार्गलचिह्नादीनामिति नियमः / अत्र देवानां पद्मजातिवृत्तरथो भवति / सुरसुतविहित इति 5 अर्जुनस्य वितानं नन्दिजातिश्चतुरस्रः, नराणामन्यथापि' चतुरस्रो रथो विहितः क्षत्रियाणामिति / अष्टाम्भोध्यक्षचक्रस्त्रिविध इह महास्यन्दनोऽर्धः समश्च दिव्योऽर्कस्यैकचक्रो विषमहयरथश्चासुराणां विनाशः / युद्ध ऽवेवत्तिकः स्याद् विषमसममहास्यन्दनः क्षत्रियाणां भग्नो सम्मुखो वे समविषमरणे पृष्ठभङ्गी समः स्यात् // 145 // अष्टाम्भोध्यक्षचस्त्रिविध इह महास्यन्दनोऽर्थः समश्चेति / इहश्च(च)तुरक्षरष्टचक्रमहारथो अवैवर्ती संग्रामे भवति; अध ऊर्दू अक्षाभ्यां चतुश्चक्रः अर्द्धरथो भवतीति / *[तस्मात् अष्ट इति चक्रम्; अम्भोधिरिति चतुर्रक्षाः; एवं त्रिविध इति . .. चतुश्चक्रम्, तथा द्वि, तथा अक्षाः। स्यन्दनस्यन्दनाधसमः तुल्यः। दिव्योऽर्करथैक- . 15 चक्र इति एकेन चक्रेण दिव्यरथो भवति, तथा अर्के भवति / विषम इत्यादि सुगमः / ] ** अक्षेनैकेन चक्राभ्यां समरथो युगपृष्ठभङ्गो भवतीति रथलक्षणनियमः। इदानीं देवानां विमाने वा नृपाणां यात्राचलगृहलक्षणमुच्यतेषट्पञ्चाब्यग्निभागैः प्रभवति च समा च्छिद्रिता स्तम्भकोटिमूलादूर्ध्वाद्ध भागो भवति पुरवशाच्चामराणां विमाने / एवं भूमौ नृपाणां त्रिविधपुरवशाद् देशयात्रोत्सवेषु हस्ताद्ध स्थान्तरेण प्रभवति हि महाभ्रामरी सर्वदिक्षु // 146 / / 1. भो. gSan rNams Kyi Yan (अन्येषामपि)। *. नन्दिभेदे कमलरथस्य चतुरस्रा मही भवतीत्यन्वयः सुकरः / *-**. अत्र ग. पुस्तके अयं व्याख्यांशो नास्ति, अस्ति च भोटानुवादे / अतः ततः संस्कृते अनुद्य अत्र प्रस्तूयते; भोटांशोऽविकलरूपेण अधः समुपन्यस्यते "Dehi Pyir brGyad Ces pa ni hKhor Loho. Chu gTer Ses pa ni Srog Sin bSiho. De ITar rNam gSum Ses pa ste hKhor Lo bSi Dan De bSin du gis so. De bSin du Srog Sin No. Sin rTa ni Sin rTahi Phyed Dan mNam pa ste mTsuns paho. Ni mahi Sin rTa mChog ni hKhor Lo gCig pa Ses pa ni hKhor lo gCig Gis Lha rNam Kyi Sin rTar Gyur Te De bgin du Ni ma La hGyur ro. Mi mNam Ses pa La Sogs pa ni Go sLa ho."