Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 299
________________ 256 विमलप्रभायां [अध्यात्म___इदानीं परमादिबुद्धात् मञ्जुश्रियोदितं स्वपरदर्शनानुमतं टीकया वितन्यते नैरात्म्येत्यादि / इह लोकसंवृत्या विचार्यमाणः सर्वदर्शनसिद्धान्तः समानो लौकिकसिद्धये; तद्यथा येन येन हि भावेन मनः संयुज्यते नृणाम् / तेन तन्मयतां याति विश्वरूपो मणिर्यथा // इति भावसंकल्पः समानः; तथा धात्विन्द्रियादिविचारोऽपि तुल्यः। व्यावहारिक कर्तृकरणादिकं च तुल्यम् / बौद्धतीथिकयोविशेषो नास्ति'; शून्यतातत्त्वं प्रति विशेषः, स च नैरात्म्येत्यादि / ____ इह नैरात्म्यं द्विविधम्-पुं(पुद्गलनैरात्म्यम्, धर्मनैरात्म्यमिति / कर्मविपाक10 स्त्रिविधः-कायिकवाचिकमानसिकश्चेति / त्रिभवः कामरूपोऽरूपः। ऋतुगतिरिति नरकप्रेततिर्यकमनुष्यासुरदेवानां गतिः षड्गतिः; द्वादशाङ्गप्रतीतेः साक्षात् सम्भूतिः षड्गतिकानामिति / वेबसत्यमिति चतुरार्यसत्यम्, दुःख-समुदय-मार्ग-निरोधलक्षणं चेति / द्विगुणितनवका इत्यष्टादश आवेणिका बुद्धधर्मा वक्ष्यमाणे(णा) वक्तव्याः। पञ्चकन्या इति रूपादयः। त्रिकाया इति धर्मकायादयः, सहज[काय] 'श्चतुर्थ इति / तथैवाजडा 15 शून्यता सर्वाकारवरोपेता प्रतिसेनोपमेति / यस्मिन्निति यानत्रये एतन्नैरात्म्यादिकं देशका वदन्ति प्रकटितनियता देशना वज्रिणः सा, बौद्धदृष्टिवसा(शा)त् सत्त्वाशयेनेति तथागतमतनियमः। इदानी ब्रह्मविष्णो(ण्वो)र्मतमुच्यते यस्मिन्नित्यादियस्मिन् वेदः स्वयम्भूर्मुखकरचरणादौ च योनिर्जनस्य नान्यो धर्मोऽश्वमेधात् पर इति भवेद् देशना ब्रह्मणः सा।. कर्ताऽत्मा कर्मकालः प्रकृतिरपि गुणाः शून्यता नष्टधर्मा कर्ता हेतुः फलस्य प्रकटितनियता देशना सात्र विष्णोः // 162 // ___ [153a] इह यस्मिन् मते वेदः स्वयम्भूरकृतक आकाशवत्, मुखकरचरणादौ च योनिजनस्येति / इह ब्रह्ममुखं ब्राह्मणयोनिः, भुजौ क्षत्रिययोनिः, आदिशब्दादूरुद्वयं वैश्ययोनिः, पादौ शूद्रयोनिरिति / नान्यो धर्मोऽश्वमेधाविति इह स्वर्गसाधनेऽश्वमेधयज्ञात् परो नान्यो दानादिधर्मोऽस्ति इति भवेद् देशना ब्रह्मणः सा इत्यादि ब्रह्ममतनियमः / १.ख. अस्ति / 2. क. ख. नैरात्म्येति: भो. Ces Pa La Sogs Pa (इत्यादि)। 3. क. ख. ग. सकाशात् ; भो. dNos (साक्षात्) / 4. भो. sKu (कायः)। .

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320