Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले स्वपरदर्शनन्यायविचारमहोद्देशः 265 इह यद्यात्मा सर्वगः स्यादनुभवति कथं बन्धुविश्लेषदुःखमिति / इह य आत्मा सर्वगः स एको भवति, तस्य बन्धुविश्लेषदुःखं न भवतीति / एकसत्त्वस्य दुःखेन सर्वसत्त्वानां दुःखं भवति, आत्मनः सर्वगत्वादिति / अथानेकात्मानः, तदा अनेकात्मनां सर्वगत्वाभाव इति / नित्यश्चायं यदि स्याद 'मदनशरहतोऽवस्थतां कि प्रयातीति / इह यो नित्यस्तस्यावस्थान्तरं नास्ति, विकाररहितत्वादिति, तत् कथमिमां कामावस्थां दश- 5 विधां मदनशरहतो गच्छतोति; तस्मादात्मनाऽनित्येन भवितव्यम्, विकारसंयोगादिति / यद्यासीत् सक्रियश्च वजति कथमिमां मूढतां सुप्तकाले इति / इह यद्यासीत् काले जाग्रदवस्थालक्षणो सक्रियः, चकारान्नित्यश्च, तदा सुप्तकाले मूढतां क्रियारहितः(ततां) कथं व्रजतीति / एवं वै एकान्तं विचार्यमाणः सर्वगः स्यान्न विभुरपि च स्वामी नित्यो न सक्रियो यन्न चात्मा इति सिद्धम् / इदानीं बुद्धभगवतः प्रवचनमुच्यते नास्त्यात्मेत्यादिनास्त्यात्मा सम्भवो वास्त्यशुभशुभफलं चास्ति कळ विहीनं गन्ता नास्त्यस्ति मोक्षाय गमनमखिलं चास्ति बन्धो न बध्यः / भावोऽभावोऽपि चास्ति क्षणिकविरहितो निःस्वभावो भवोऽस्ति एतन्मे सत्यवाक्यं सुरफणिवचनैः संग्रहैर्हन्यते न // 172 // 15 इह प्रतीत्यसमुत्पन्नधर्माणां निरोधादुत्पाद उत्पादान्निरोधः / एवं निरोधधर्माणामात्मा नास्ति, आत्मी[157b]याभावात् / उत्पादधर्माणां सम्भवोऽस्ति, पुनर्जन्मग्रहणात् / स्वाध्यायादिदृष्टान्तरेषां सिद्धिरिति वक्ष्यमाणे वक्तव्या। अशुभशुभफलं चास्तीति उत्पादधर्माणां शुभाशुभफलमस्ति, निरोधधर्माणामभावेन / क; विहीनं क; विनेत्यर्थः / गन्ता नास्ति निरोधधर्मसमूहः, मोक्षाय च गमनमस्ति, "अन्येषामन्यत् तद्रूपम्" 20 इत्यादिवचनात्; अखिलं समस्तम् / अस्ति बन्धो न बध्य इति, इहोत्पादधर्माणां बन्धोऽस्ति, बध्यो निरोधधर्मो(धर्माणां) 3 नास्ति / भावोऽभावोऽपि चास्ति क्षणिकविरहितो निःस्वभावो भवोऽस्तीति / इह भावाभावैकलोलीभूतो निःस्वभावो द्रव्यविकल्परहितः प्रतिसेनातुल्यः क्षणिकविरहित उत्पादव्ययरहितो भावो बुद्धानां धर्मचक्रप्रवर्तनायास्तीति / एतन्मे सर्वग्रहविनिमुक्तं वचनं यत् तत् सुरफणिवचनेः संग्रहहन्यतेन / इह 25 यथा ग्रहग्रस्तो मल्लो ग्रहमुक्तमल्लं हन्तुं न शक्नोति, तथा विकल्पग्रहग्रस्तो(स्ता) विकल्पग्रहमुक्तं हन्तुं न शक्नुवन्तोति नैरात्म्यादिसिद्धिः संक्षेपेणात्रोक्का, विस्तरो विस्तरागमेन ज्ञेय इति नियमः। इदानीं वैभाषिक-सौत्रान्तिक-योगाचार-मतदूषणमुच्यते यस्तत्वमित्यादियस्तत्त्वं पुद्गलाख्यं वदति तनुगतं तत्स्वभावात् स नष्टः संवृत्या चार्थवादी त्वविदितपरमार्थो ह्यसन्मन्यमानः / 1. क. ख. मदनसर० / 2. भो. Sad Pa (जाग्रत) 3. भो. Gog Pahi Chos rNam La (निरोधधर्माणाम्) /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e881e43e90148dc2be5240af56a5e482c2c2050e96a0b4f8a5590f24fbcc1aa3.jpg)
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320