Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 311
________________ 268 विमलप्रभायां [अध्यात्म इदानी पूर्वकर्मोपभोगवर्तमानकर्मसञ्चयप्रतिषेध उच्यते जन्तुरित्यादिजन्तुः पूर्वाणि कर्माण्यनुभवति कृतान्यहिकान्यन्यजात्या यद्येवं कर्मनाशो न हि भवति नृणां जातिजात्यन्तरेण / .. संसारान्निर्गमः स्यादपरिमितभवै व मोक्षप्रवेश एतद् वै तायिनां तु प्रभवति हि मतं चान्यजातिप्रहीणम् / / 174 // इह येषां' मतं जन्तुः पूर्वकृतानि कर्माणि भुङ्क्ते इह जन्मनि कृतान्यन्यजात्यामिति; यद्येवं तदा कर्मनाशो न हि भवति नृणां जातिजात्यन्तरेण, कर्मफलोपभोगत इति / एवं न संसारान्निर्गम: स्यादपरिमितभवै व मोक्षे प्रवेशो भवतीति / एतद् वै तायि(जि) नां प्रभवति हि मतम्, किन्तु अन्यजातिप्रहोणमिति तायि(ज़ि)नां म्लेच्छानां 10 मतम् / मनुष्यो मृतः स्वर्गे वा नरके वा अनया मनुष्यमूर्त्या सुखं वा दुःखं वा भुङ्क्ते रह्मणो नियमेनेति / अतोऽन्यजातिप्रहोणमिति नियमः / इदानी चार्वाकमतदूषणमुच्यते भूतैरित्यादिभूतैयंोकभूतैः प्रभवति मदिराशक्तिवत् साक्षिचित्तं वृक्षाणां किन्न हि स्यात् क्षितिजलहुतभुगमारुताकाशयोगात् / 15 नास्त्येषां जन्तुशक्तिस्त्वथ परममृषा भूतसंयोगशक्ति रेतच्चार्वाकवाक्यं न हि सुखफलदं मार्गनष्टं नराणाम् // 175 / / इह पूर्वोक्तैर्भूतैः पृथ्व्यादिभिरेकीभूतैर्यदि हरीतकोगुडधातकोसंयोगेन मदिराशक्तिवत् सेन्द्रियं चित्तं नराणामिति सिद्धम्, तदा वृक्षाणां पृथ्व्यादिभिरेकीभूतानां किन्न भवति सेन्द्रियं चित्तमिति भूतसंयोगात् / अथैषां स्थावराणां जन्तुशक्तिर्नास्तीति, 20 तदा परममृषा भूतसंयोगशक्तिरिति; तस्मादेतच्चार्वाकवाक्यं न हि सुखफलदं मार्गनष्टं नराणामिति लोकायतमतदूषणनियमः। [159b] इदानी क्षपणकमतदूषणमुच्यते जीव इत्यादिजीवः कायप्रमाणो यदि करचरणच्छेदनान्नस्य(श्य)ते किं . नित्यः कायप्रभावादणुरपि च भवेत् स्थूलतां किं प्रयाति / संसारात् कर्ममुक्तो व्रजति सुखपदं यत् स्थितं लोकमूनि त्रैलोक्यं चाणुभिर्यद् रचितमपि सदा शाश्वतं तन्न कालात् // 176 / / 1. क. ख. एषां / 2. ख. भोग / 3. क. पुस्तके नास्ति / 4. भो. sTag gZig (तग जिग्) / 5. क. रवनणो; भो. Rahma Na (रह्मण)।

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320