Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 313
________________ 270 विमलप्रमायाः [अध्यात्मएको जीव एकं पुद्गलं गृह्णाति यस्य प्रभावेन वनस्पतीनां साशोस्योदोमांः जीवितसंज्ञा / यदि जीवो नास्ति, तदा पादप इति कथं सिद्धम् / न चाजीवाः काष्ठा उदकं पीत्वा पुष्पादि ऋतु प्रकुर्वन्तीति सिद्धम् / आह-यदि इह प्रत्येकपुद्गले प्रत्येकम् एकैको जीवः, तदा इक्षुदण्डे खण्डे खण्डे 5 कृतेऽनेकखण्डानि भवन्ति; तेषां मध्ये एकस्मिन् खण्डे स जीवो नित्यः कर्मवशात् सङ्कुचन प्रविष्टः / कानि तेन परित्यक्तानि न चैवं युक्त्या घटते / विचार्यमाणः कुतो यतस्तेषां पुनर्भूम्यामारोपितानामङकुरादिकं प्रत्येकखण्डे दृश्यते / तस्माद् वस्तुस्वभावो वनस्पतीनाम्' अकुरादिशक्तिरिति सिद्धम् / इति क्षपणकमतदूषणनियमः। विस्तरोऽनेकोऽनेकप्रमाणशास्त्रेण मध्यमकेन निराकरणीयस्तीथिकानां सिद्धान्तः।। 10 यः संवृत्या विवृत्या वा सम्बुद्धवचनसमः, स न दूषणीय इति कालचक्र आदिबुद्धभगवतो नियमः* | तद्यथा इत्यादिज्ञानहेतोः प्रकटयति महौ देशनां कालचक्र: पुंसां चित्तानुसारां मृदुकठिनपरां वासनाया बलेन / चित्तं वै भावरागैः स्फटिकवदुपधाद् रागतां याति यस्मात् 15 तस्माद् धर्मो न कश्चित् स्वपरकुलगतो योगिना दूषणीयः // 17 // 1-2. क. वनस्पतीनाम् अकुरादिकं प्रत्येकखण्डे दृश्यते, तस्माद् वस्तु स्वशक्तिरिति सिद्धम् / कालचक्रतन्त्रस्य तट्टीकाया विमलप्रभायोः किमभिप्रायकमिदं वचनद्वयम्, यथा 'यः संवृत्या विवृत्या वा सम्बुद्धवचनसमः, स न दूषणीय इति कालचक्र आदिबुद्धभगवतो नियमः' इति / 'तस्माद् धर्मो न कश्चित् स्वपरंकुलगतो योगिना दूषणीयः' (मूले 2.166) इति च / वचनाम्यामेताभ्याम् आपाततः परमतं नैव कालचक्रिणा दूषणीयमित्याभाति / एवं सति प्रर्वतमानेऽस्मिन् स्वपरविचारन्यायमहोद्देशे कथमिह परमतखण्डनं कृतं मूले टोकायां च, कथं चोक्तम् एतम्महोद्देशावसाने टीकायाम्-'मध्यमकेन निराकरणीयस्तीथिकानां सिद्धान्तः' इति / आपाततः प्रतीयमानस्यैतद्विरोधस्य. निराकरणं भवति खेस् ड्रब जे महाभागानां स्वाभिप्रायाविष्करणेन / तैरुक्तम् "Mu sTegs Pa dGag Pa rGya Chen Po rNam Pa Du Mar Tshad Mahi bsTan bCos Du Ma Dan dBu Ma Pas gSun Lugs Du Mar bsTan Pa Dag Gis Mu stegs Pa rNams Kyi Grub Pahi mThah Sun dByun Bar Bya sTe. Mu sTegs Las gSan Pa Gan Sig Kun rdZob Bam Don Dam Pa Sans rGyas Kyi gSun Dan mTshun Pa Mra Ba De Ni Sun dByun Bar Mi Byaho". (\Grel Chen Dri Med Hod \Grel bSad, 'Ga', page 208B)..

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320