Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 271 'भेटले स्वपरदर्शनन्यायविचारमहोद्देशः धर्मः सत्त्वोपकारो विषयविरहितश्चापकारोऽप्यधर्मः हिंसा वेदप्रमाणा न हि सुखफलदा दुःखदा सर्वकालम् / सन्मत्रो मूर्खवाक्यात् परमसुखकरा सर्वसत्त्वानुरक्ता तस्मात् सत्त्वार्थमेकं कुरु नृप मनसा भावनां निःस्वभाव()म् // 178 / / इन्द्रोऽहं स्वर्गलोके त्रिदशनरगुरुभूतले चक्रवर्ती पा[160b] ताले नागराजः फणिकुलनमितः सर्वगश्चोत्तमोऽहम् / ज्ञानं बुद्धो मुनीन्द्रोऽक्षरपरमविभुर्योगिनां वज्रयोगो वेदोऽङ्कारः पवित्रो व्रज मम शरणं सर्वभावेन राजन् // 179 // इति शरणनियमः। इदानीं* सूर्यरथस्य नमस्कार:त्वं माता त्वं पिता त्वं जगति गुरुरपि त्वं च बन्धुः सुमित्रं त्वं नाथस्त्वं विधाता हित(हि त्व)मघहरण त्वं पदं सम्पदां च / त्वं कैवल्यं पदं त्वं वरगुणनिलयो ध्वस्तदोषस्त्वमेव त्वं दोनानाथ चिन्तामणिरपि शरणं त्वां गतोऽहं जिनेन्द्र* // 180 // ___ इति श्रीमदादिबुद्धोद्धृते श्रीमहाकालचक्रे' 15 अध्यात्मनिर्णयो द्वितीयपटलः // 2 // इति सूर्यरथो गुरुनमस्कारेण मश्रियं भगवन्तं स्तुत्वा पादद्वयं शिरसि कृत्वा पुनः स्वकीयासने निषन्नः(ण्णः)। इति श्रीमूलतन्त्रानुसारिण्यां' लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायां 20 स्वपरदर्शनन्यायविचारमहोद्देशः सप्तमः // 7 // समाप्तेयं टोका अध्यात्मपटलस्येति // 2 // उपरिलिखितभोटांशस्य संस्कृतानुवादः__ "प्रमाणशास्त्रेषु माध्यमिकशास्त्रेषु वा निर्दिष्टैविस्तृतदूषणप्रकारैस्तैर्थिकाः दूषणीयाः / तैथिकेतरे ये संवृति वा परमार्थ वा अङ्गीकृत्य बुद्धवचनानुसारेणैव स्वपक्षं स्थापयन्ति, ते नैव दूषणीयाः" / १.क. श्रीमहाकालचकतन्त्रराजे / 2. क. द्वितीयः पटलः / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d12bbc028030fdd475a6cea24f748bf39ce9b3c04d082efe210ef25897a7bd3a.jpg)
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320