Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले] स्वपरदर्शनन्यायविचारमहोद्देशः 267 ____ अतो विज्ञानविचारेणेकानेकस्वभावेन विज्ञानवादिनो नष्टा वियोगत इति / इह विज्ञानमात्र त्रैधातुकम् / यदि ज्ञानादन्यद् बाह्यवस्तुरूपं' नास्ति, तदा चक्षुर्विज्ञानस्य ग्राहकस्य बाह्यरूपं कथं ग्राह्यस्वभावेन प्रतिभासत इति ? आह–अविद्यावासनावसे (शे)नेति / आह-किमियमविद्याऽपगमो नास्ति विज्ञानस्य ? अविद्या धातुकलक्षणा न 5 भवति ? यद्यविद्या धातुकलक्षणा न भवति, तदा संसारातीतलक्षणा भवति, एवं प्रज्ञापारमितेयम् / न चैवम्; तस्मादियमविद्या संसारवासना, संसारोऽपि त्रिभुवनलक्षणः, त्रिभवं त्रैधातुकम्, त्रेधातुकं च विज्ञानमात्रम् / एवमविद्या विज्ञानमात्रा, विज्ञानमात्र तदात्मकत्वम, तदात्मि(त्मकत्वादविद्याऽपगमो नास्ति, विज्ञानस्याविद्यामात्रतः। अथ विज्ञानमात्र त्रेधातुकं न भवति,तदा प्रतिज्ञाहानिरिति त्रैधा[158b]तकमात्रत्वमसिद्धम् / 10 इदानी क्षणभङ्गोत्पाददोष उच्यते इह यो धर्माणामेकक्षणाद् भङ्गोत्पादो भवति, स किं स्थित्या विना ? यदि स्थित्या विना भङ्गोत्पादश्च भवति, तदा शशविषाणस्यापि भविष्यति / अथ उत्पादात् स्थितिः, स्थितेर्भङ्गो भङ्गादुत्पादः, एवं स्थितिभङ्गोत्पादानामेकत्वं नास्ति, भिन्नलक्षणेन भवितव्यम् / इह यस्मिन् काले स्थितिस्तस्मिन् काले नोत्पादभङ्गो, यस्मिन् काले 15 भङ्गस्तस्मिन् काले नोत्पादस्थिती, यस्मिन् काले उत्पादस्तस्मिन् काले न स्थितिर्न भङ्गः / काल इति क्षणः, सत्येककाले जातिजरामरणानामैक्यमिति / किञ्चान्यत् / इह य एकक्षणे भङ्गोत्पादो धर्मस्य, स कि पूर्वधर्मनिरुद्धादपरधर्मोत्पादः, अथानिरुद्धधर्मात् ? यदि निरुद्धधर्मादुत्पादस्तदा निरुद्धप्रदीपादपरप्रदीपोत्पादः, अथानिरुद्धादुत्पादस्तदा अनिरुद्धात् प्रदीपात्५ प्रदीपोत्पादवत् तस्मादपरोत्पादः; 20 एवमुत्पादांदुत्पादेन प्रदीपमाला इव विज्ञानमाला भवति / अतः पूर्वविज्ञानस्य निरोधादपरस्योत्पादो वक्तुं न शक्यतेऽनिरुद्धादपि, न मिश्रात्, परस्परविरोधेन 'तयोरेकत्वाभाव इति / अतो माध्यमिक आह "नेष्टं तदपि धीराणां विज्ञानं परमार्थसत् / एकानेकस्वभावेन वियोगाद् गगनाम्जवत् / / [159a] न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् / चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः // " इति / योऽनष्टो नष्टपक्षः स भवति / कोऽसौ ? करुणाशून्यताद्वैतवादी यः / इह यस्य करुणा निरालम्बा विकल्प ता सर्वाकारवरोपेता व्यध्वतिनी व्यध्वपरिज्ञानाय इति बौद्धसिद्धान्तनियमः। 1. क. ख. बाह्यरूपं / 2-3. क. ख. भो. पुस्तकेषु 'अपगमो""अविद्या' इत्यंशो नास्ति / 4. क. ख. भो. पुस्तकेषु नास्ति / 5. ग. पुस्तके नास्ति / 6. क. ख. तत्पा / 30
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320