Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 266 विमलप्रभाया [अध्यात्मविज्ञानं मन्यमानस्त्रिभुवनसकलं चैव विज्ञानवादी योऽनष्टो नष्टपक्षः स भवति करुणाशून्यताद्वैतवादी // 173 / / इह तोथिकबौद्धानामेषां पक्षग्रहः, तेन स्वपक्षग्रहेण परपक्षस्यापि ग्रहणं भवति, तद्धर्मेण तद्वधर्मेण वा तेषां बालमतीनाम् / इह वैभाषिको यस्तत्त्वं पुद्गलाख्यं वदति 5 तनुगतं तत्स्वभावात् स नष्ट इति / इह यदि पुद्गलान्तर्वर्ती उपपत्त्यङ्गिकः पुद्गलोऽस्ति, तदा स्वभावो वाच्यः, किं ज्ञानस्वभावोऽज्ञानस्वभावो वा ? यदि ज्ञानस्वभावस्तदाऽनित्यः, T335 इह घटज्ञाने निरुद्ध पटज्ञानमुत्पद्यते, अतोऽनित्यः। अथ ज्ञानस्वभावस्तदाऽज्ञानस्य सुख[158a]दुःखाभावः / अतस्तत्स्वभावाद् विचार्यमाणः स नष्टो वैभाषिक इति / इहास्ति पुद्गलो भारवाहो ‘ण गिव्वं (च्च) भणामि, णाणिव्वं (च्चं) भणामो' 10 ति / यद् भगवतो वचनं तद् ज्ञानपटले विस्तरेण वक्तव्यमिति / संवृत्या चार्थवादी त्वविदितपरमार्थो ह्यसन्मन्यमान इति / इह संवृत्या नोलाद्यर्थग्रहार्थवादी नष्टः / कथम् ? अविदितपरमार्थो ज्ञानकायो हि असन् वन्ध्यापुत्रवद् मन्यमानः; तथाह "आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम् / / संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम् // अक्षजा धीरनाकारा साक्षाद् वेत्त्यणु'सञ्चयम् / स्यात् काश्मीरमताम्भोधिवैभाषिकमतं मतम् / / इति / स्वा(सा)कारज्ञानजनका दृश्या ते(ने)न्द्रियगोचराः।। वन्ध्यासुतसमं व्योमनिरोधौ व्योमसन्निभौ // संस्कारा न जडाः सन्ति त्रैकाल्यानुगमो न च / असदप्रतिघं रूपमिति सौत्रान्तिका विदुः / / " इति / 15 अतोऽप्रतिघं रूपं काल्यवेदकम् / यदि प्रदीपनिर्वाणसमम्, तदा अप्रतिघरूपे असति सर्वज्ञो न भवति; चतुर्भिः कार्यविना प्रादेसि(शि)ककायेन बुद्धत्वं न भवति / इहाप्रतिघकायेन विना बुद्धस्य सर्वाकारऋद्धिदर्शनं न स्यात्, सर्वरुतवचनं न भवति, 25 परचित्तज्ञानं च न प्रवर्तते, दिव्यचक्षुरादिकं सर्वं निष्फलं भवतीति सौत्रान्तिकग्रहदोषः / इदानीं योगाचाराणां ग्रहदोष उच्यतेविज्ञानं मन्यमानस्त्रिभुवनसकलं चैव विज्ञानवादीति; आह "न सन्नवयवी नाम न सन्तः परमाणवः / प्रतिभासो निरालम्बः स्वप्नानुभवसन्निभः // ग्राह्यग्राहकवैधुर्यात् विज्ञानं परमार्थसत् / योगाचारमताम्भोधिपारगैरिति गीयते // " 1. क. ख. साक्षाद्वेदाणु०; भो. Phra Rab....Rig (वेत्त्यण०) /
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320