Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 307
________________ 264 विमलप्रभायां अध्यात्म ___ आह--इह तवेच्छातः सिद्धिर्न ममेति वैषमिकत्वम् / यदीच्छातः सिद्धं भवति, तदा ममापीच्छातः / यत् तव' सत् तद् ममासत् सिद्धम्, युक्तिविवर्जितत्वात् / / . ___आह-आप्तागमादस्माकं समय एषः / समयोऽसिद्धः / समय इति वक्तं न लभ्यते, उक्तं शास्त्रविद्भिरिति / आह-कदाचिद् युक्तिरुच्यते / इह उपादानकारणात् सर्वसम्भवाभावात् शक्तस्य शक्यकरणात् सत्कार्यसिद्धिरिति / __ आह-इह युष्माकं हेतुर्वृथा / कथम् ? यदि तव पक्षस्य (पक्षः) साधकलक्षणप्राप्तः, तदा ममापि पक्षं साधयिष्यति / अथ दूषणलक्षणप्राप्तस्तव पक्षस्य (पक्षः), तदा ममापि पक्षं दूषयिष्यति, यथाग्निरुभयदाहको नासावेकस्येति / इह यथा शब्दवादिनां प्रतिज्ञा-नित्यः शब्दः; को हेतुः ? अमूर्तत्वादिति / को दृष्टान्तः ? आकाशवत्; यथा आकाशममूर्तत्वान्नित्यम्, तथा शब्दोऽपि यस्मात् तस्मात् शब्दो नित्यः सिद्ध इति / आह-नेयं प्रतिज्ञा, परोऽपि वक्ष्यति-अनित्यः शब्दः। को हेतुः? कृतकत्वादिति / को दृष्टान्तः ? घटवत्; यथा घटो मुद्दण्डचक्रसूत्रपुरुषहस्तव्यायामात् कृतकः, 15 तथा शब्दोऽपि कण्ठताल्वादिभिः प्रयत्नतो जनितो यस्मात् तस्मादनित्यः शब्दः सिद्धः / अतो हेतुव्यपदेशमात्रतः कार्यसिद्धिर्न भवति / यस्तु याथातथ्यं ब्रूयात् , तत् प्रमाणं स्यान्न हेतव्यपदेशत इति / एवं हेतुर्वथा। अन्यच्च : साध्यानां प्रतिज्ञाविरोधेन हेत: साधको न भवति / इह यस्मिन् काले प्रतिज्ञा तस्मिन् काले हेतुर्नास्ति; यस्मिन् काले हेतुस्तस्मिन् काले प्रतिज्ञा नास्ति / अथ कस्यासौ हेतुः प्रतिज्ञया विना अयुगपद्धर्मित्वात् / 20 यस्मिन् काले 'प्र'कारस्तस्मिन् काले न 'ति'कारो 'ज्ञा'कारश्च / एवं पकाररेफाकाराः, यथा 'प्र'कारस्याक्षराक्षरस्य / न ह्यजातेन मृतेन वा पुत्रेण पुत्रकार्य कर्तुं शक्यते, एवं हेतुनापि / तस्मात् कारणोपलम्भात् कार्य न भवति, अहेतुतः सिद्धत्वात् / अहेतुत इति हेतुः कारणमित्यनान्तरम् / एवं न कारणे कार्यम्, नाप्यहेतुतः कार्य भवति; अतः कार्य स्वतो न भवति, परतो न भवति, उभयतो न भवति, अहेत[157a]कं न भवतीति सिद्धं 25 कर्तृकारणनित्यदूषणमिति / इदानीमात्मनो दूषणमुच्यते यदोत्यादियद्यात्मा सर्वगः स्यादनुभवति कथं बन्धुविश्लेषदुःखं नित्यश्चायं यदि स्यान्मदनशरहतोऽवस्थतां किं प्रयाति / यद्यासीत् सक्रियश्च व्रजति कथमिमां मूढतां सुप्तकाले एवं वै सर्वगः स्याद् विभुरपि च पुरा सक्रियोऽयं न चात्मा // 171 // 1-2. ख. यत् तदसत् /

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320