Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 305
________________ 262 विमलप्रभायां [अध्यात्म"यूपं छित्वा पशं हत्वा कृत्वा रुधिरकर्दमम् / यद्येवं गम्यते स्वर्गो नरकः केन गम्यते // " इति 'शुकवाक्यं प्रसिद्धम् / तस्मान्न वेदः स्वयम्भूः, न मुखादियोनिर्जनस्य, नाश्वमेधात् परतो धर्मोऽन्य इति; सर्वप्रलापं निरर्थकं विचार्यमाणमिति ब्रह्ममतं वैष्णवमतमीश्वरेण 5 साद्धं दूषणीयमिति / इदानीमीश्वरमतस्य दूषणमुच्यते अस्तीत्यादिअस्तीशः सर्वकर्ता यदि स च जगतः कर्मभोक्ता न चान्यः नापीशः कर्मकर्ता यदि स च न भवेत् सर्वकर्ता समन्तात् / [155b] कर्ताऽन्यः प्रेरितः सन् यदि परमपराधीनता कर्तुरेषा 10 तस्मात् कर्ता न चेशोऽशुभशुभफलदः प्राणिनां कर्म मुक्त्वा // 168 // इहास्तीश्वरः सर्वकर्ता यदि भवति, तदा कर्मभोक्ता न चान्य इति / कथम् ? अन्यो वटकमश्नाति, अन्यः पिपासया म्रियते / न चैवम् / यः करोति स कर्ता, यत् क्रियते तत् कर्म; तस्य कृतस्य कर्मणः फलभोक्ता कर्मकर्ता / न च कर्मणा विना कर्ता सिद्धयति; यथा कुम्भं करोतीति कुम्भकारः। एवं यः कर्म करोति स कर्तेति न्यायः / आह15 नापोशः कर्मकर्ता, स्वतन्त्रः प्रयोजक इति / इह यदि कर्मकर्ता न भवति, तदा सर्वकर्ता समन्तादिति निरर्थकम / इह कर्ता यदि प्रेरितः सन कर्म करोति. तदा कर्तः पराधीनता। यस्य पराधीनता तस्य प्रयोजकः कथं विरुद्धकर्मणि कृते सति निग्रहं न करोति; स्वतन्त्रतया विना, स्वतन्त्रता ईश्वरेण व्याप्ता / एवं कर्मफलाभावः कर्तृवादिनां सिद्धः; न चैवम्; तस्मात् कर्ता न कश्चिद् ईशोऽशुभशुभफलद: प्राणिनां कर्म मुक्त्वेति स्वकर्म20 फलोपभोगः सिद्धः कर्ता[२] विना / इदानीं स्वतन्त्रस्य कर्तुः परापेक्षिकत्वमुच्यते पृथ्वोत्यादि- . पृथ्वीतोयाग्निवातार्णव इह यदि खे कर्तुरादौ न सन्ति द्रव्याभावे न विश्व विषयविरहितः सर्वकर्ता करोति / न प्रत्यक्षं परोक्षं विषयविरहितस्यास्य कर्तुः प्रमाणं संयोगादेव सर्वं भवति नरपते नेच्छया कर्मरूपम् // 169 // इह यदि खे आकाशे पृथिव्यादिपरमाणवो न सन्ति कर्तुरादौ, तदा द्रव्याभावे न विश्वं करोति / विषयविरहितो निष्कलः, सर्वकर्ता कथम् ? अस्य विषयविरहितस्य कर्तुः साधकं न प्रत्यक्षं परोक्षं प्रमाणं यस्मात्, तस्माद् द्रव्यसंयोगादेव सर्व विश्वं चराचरं भवति, नेच्छया कर्तुः कर्मरूपमिति न्यायः; इतीच्छाप्रतिषेधः कर्तुः। 1. ग. शुक्र० / 2. ख. प्रणिधान / 3-4. भो, Byed Pa Po Med Par (कर्तारं विना) / 25

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320