Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 306
________________ पटले] . स्वपरदर्शनन्यायविचारमहोद्देशः 263 इदानीं प्रतीत्योत्पाद उच्यते संयोगादित्यादिसंयोगादिन्दुकान्तेर्भवति च सलिलं दर्पणे वस्तुबिम्ब जिह्वाश्रा(स्रा)वोऽम्लहेतोः स्वरवत इतरः शुद्धबोजाङ्करः स्यात् / कान्ताच्चायःशलाकाभ्रमणमपि भवेन्नेच्छया किञ्चिदेषां वस्तूनां शक्तिरेषा त्रिभुवननिलये निर्मिता केनचिन्न / / 170 // इह सर्ववस्तूनां संयोगादुत्पादः-इदं प्राप्य इदमुत्पद्यते / संयोगादिति चन्द्रकिरणसंयोगाच्चन्द्रकान्तेर्भवति च सलिलम्, चकारात् सूर्यकान्तेरग्निर्भवति / दर्पणे वस्तुसंयोगात् वस्तुप्रतिबिम्बो भवति / अन्यस्याम्लभक्षणसंयोगादन्यस्य जिह्वाधा(ना)वो भवति, अम्लहेतोः सकाशादिति / कूपादौ स्वरवसंयोगात् प्रतिरवो भवति / शुद्धबीजेऽङ कुरः स्यात्, पृथ्वोतोयादिसंयोगादिति / कान्ताविति कान्तपाषाणात् अयःस(श)लाकाभ्रमणं 10 भवति, संयोगादिति / नेच्छया किञ्चिदेषां वस्तूनां वस्तु भवति, किन्तु वस्तूनां शक्तिरेषा / त्रिभुवननिलये निमिता केनचिन्नेति प्रतोत्योत्पादः सिद्धः / ___आह-इह कारणेन विना कार्य न भवति यस्मात् तस्मात् कारणमस्तीति, अत ईश्वरादिकं सिद्धमिति / - आह-इह कारणे कार्य यद् भवति, तत् किं सत्कार्यम्, असद् वा ? कारणे 15 सत्कार्य न भवति, विद्यमानस्य घटस्य मृदादयः कारणभूता न भवन्ति, सत्त्वात्। असत्कार्य न असत्त्वात्, कूर्मरोमवत् , तथा पटस्य [तन्तुति]रीवेमादयः कारणभूता न भवन्ति / उभयात्मकं कार्य न भवति, परस्य(परस्पर)विरोधात् / यत् सत् तदसन्न भवति, यदसत् तत् सन्न भवति, विरोधात् / अतो न सत्कार्यम्, नासत्कार्यम्, न सदसत्कार्य' कारणे भवतीति सिद्धम् / आह-इह कारणस्य प्रतिषेधेन कार्यस्यापि प्रतिषेधो भवतिः उभयप्रतिषेधात् सर्वाभाव इति सिद्धम् / आह-इह सर्वाभावो न, परापेक्षिकत्वादिति / इह कारणे यत् कारणत्वं तत् कार्यमपेक्ष्य परिकल्प्यते, कार्यं च कारणमपेक्ष्य; एवं परापेक्षिकत्वादुभयोरपि कारणत्व- T334 प्रसङ्गः। उभयस्य कारणत्वात् कार्याभावः, तदभावे कारणाभावः, कारणस्य[156b] 25 कार्यापेक्षिकत्वाद् अनियतत्वप्रसङ्गः / तस्माद् अनियतत्वाद् अकारणत्वप्रसङ्गः। एवं सर्वेषामीश्वरादीनां कारणानाम् अनियतत्वम् अकारणत्वं सिद्धम् / ___आह.-नापेक्षिका सिद्धिः कारणस्य च; यत् कारणं तत् कारणमेव, यत् कार्य तत् कार्यमिति सिद्धम् / 1. ग. पुस्तके नास्ति / 2. ख. परोक्षिकत्वात् / 3. क. ख. ग. अनित्यत्वप्रसङ्गः; भो. Nes Pa Med PaNid (अनियतत्व)। 4. क. ख. ग. अनित्यत्वाद् / 5. क. ख. ग. अनित्यत्वम् / 20

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320