Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ स्वपरदर्शनन्यायविचारमहोद्देशः 261 सिद्धम् / तस्माद् देशको ब्रह्माऽस्ति, अविदितविषयेऽनागतार्थेऽ[प्य]तीत इति देशकः सिद्धः / आसीत् पाठाद् मुखपाठात्' कृतकः सिद्धः / वेदो नाकाशतुल्यः कृतक इह मुखोच्चारितः स्थानभेदात् युक्त्या प्रादेशिकश्च द्विजमुखपठितः सर्वगोऽन्ये पठन्ति / यस्मात् शूद्रादिजातिः पठति लिखति नासर्वगो वेद एषस्तस्माद् वेदः प्रमाणं न हि भवति नृणां ज्ञानिनां पण्डितानाम् // 167 / / [155a] 5 अतो वेदो न आकाशतुल्यः कृतक इह मुखोच्चारितः स्थानभेदादिति नियमः / युक्त्या प्रादेशिकश्च द्विजमुखपठितः सर्वगोऽन्ये पठन्ति / यस्माच्छूद्रादिजातिः पठति लिखति नासर्वगो वेद एषः; तस्माद् वेदः प्रमाणं न हि भवति नृणां ज्ञानिनां पण्डिता- 10 नामिति वेदः कृतकः सिद्धः संक्षेपतः। विस्तरेण प्रमाणशास्त्र ज्ञेय इति मञ्जुश्रयो नियमः। इदानीं पूर्वोक्तं ब्राह्मणादीनां योनिदूषणमुच्यते इह किल ब्रह्ममुखं ब्राह्मणानां योनिः, तदुत्पन्नत्वादिति / एवं भुजौ क्षत्रियाणां योनिः / आदिशब्दाद् ऊरुद्वयं वैश्यानां योनिः, पादद्वयं शूद्राणां योनिः; एवं चत्वारो 15 वर्णाः / एषां चतुर्णामन्तिमो वर्णः पञ्चमः चण्डालानाम्; तेषां का योनिन ज्ञायते ब्राह्मणैस्तावदिति / किञ्चान्यत् / इह ब्रह्ममुखाद् ब्राह्मणा जाताः, किल सत्यम् ? अतः पृच्छामि-किं ब्राह्मण्ये(ण्यो)ऽपि ततो जाताः, यदि स्युस्तदा भगिन्यो भवन्ति, एकयोनिसमुत्पन्नत्वादिति / एवं क्षत्रियादीनामपि विवाह हो) भगिन्या सार्द्ध भवति ? कथम् ? अथ भवति, तदा म्लेच्छधर्मप्रवृत्तिभवति / म्लेच्छधर्मप्रवृत्तौ जातिक्षयः, जातिक्षयान्नरक- 20 मिति न्यायः। अपरमपि विचार्यते इह यद्येकः स्रष्टा प्रजानाम्, तदा कथं चतुर्वर्णा भवन्तीति ? यथा एकस्य पितुश्चत्वारः पुत्रास्तेषां न पृथक् पृथग् जातिः, एवं वर्णानामपि / अथ ब्रह्मणो मुखादिभेदेन भेदः, तदा स एव युक्त्या न घटते। कथम? यथा उदम्बरफलानां मलमध्याग्र- 25 जातानां भेदो नास्ति, तथा प्रजानामपि। अपरोऽपि श्वेतरक्तपीतकृष्णवर्णभेदेन भेदो न दृश्यते; तथा धात्विन्द्रियसुखदुःखविद्यागमादिभिर्भेदो न दृश्यते यस्मात्, तस्माजातिरनित्ये(रनियते) ति सिद्धम् / एवमश्वमेधादियागफलं शुकेन' दूषितम् / तद्यथा 1. क. ख. पुस्तकयो स्ति / 2. ख. तनो। 3. क. ख. श्रेष्ठाः / 4. भो. Nes Pa Med Pa (अनियता)। 5. ग. शुक्रेन /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/23baf422dc1e7690cbabe43f33f697ad76a864802e9cf2e9f5de4ec9d7d417fd.jpg)
Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320