Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 303
________________ 260 विमलप्रभायां [अध्यात्मजीवानां षट्कायलेशाः(श्या)। पञ्चान्ये सन्ति काया इति आहारिकः कायः, ज्योतिःकायः, ने(नैसर्गिककायः, उपपादुककायः, चरमकायश्चेति जीवानाम् / व्रतसमितिगतिनिचारित्रभेदा इति क्षपणकानां व्रतानि पञ्च-अहिंसा प्रथमम्, द्वितोयं सत्यम्, तृतीयं दत्तादानम्, चतुर्थं ब्रह्मचर्यम्,पञ्चमं सर्वपरिग्रहपरित्याग इति; समितयः पञ्च5 ईर्यासमितिः, भाषासमितिः, पर्येषणासमितिः, आदाननिक्षेपणसमितिः', निकटप्रतिष्ठापनासमिति(उत्सर्गसमिति)रिति; गतिभेदाः पञ्च-नरक-तिर्यक्-मनुष्य-देव-मोक्षगतिश्चेति; ज्ञानभेदाः पञ्च-मतिः, श्रुतिः (श्रुतः), अवधिः, मनःपर्येषणम् (पर्यायः२), कैवल्यज्ञानं चेति / चारित्रभेदास्त्रयोदश-व्रतभेदाः पञ्च, समितिभेदाः पञ्च, कायगुप्तिः, वागगुप्तिः चित्तगुप्तिश्चेति / इत्येतन्मोक्षमार्गमर्हद्भिः प्रोक्तम् / जीवः कायप्रमाणः / 10 अपरिमितभवैनित्यजीवे न मोक्षः / यस्मिन् सिद्धान्ते मोक्षप्रमाणं' ह्यपरि त्रैलोकस्य निगदितं पञ्चचत्वारिंशद्योजनलक्षं छत्राकारम्, सा देशना जिनानामिति क्षपणकमतनियमः / [154b] इदानीं तीथिकानां मतस्य युक्तिविचारेण दूषणमुच्यते वेद इत्यादिवेदोऽसौ न स्वयम्भूस्त्रिभुवननिलये वेदशब्दोऽर्थवाची ब्रह्मा वक्त्रैश्चतुभिः प्रकटयति पुरा वेदशब्देन चार्थम् / शब्दस्यार्थोऽप्यभिन्नस्त्वथ दहति मुखं किन्न शब्दोऽग्निरुक्तः तस्माद् वै देशकोऽप्यस्त्यविदितविषयेऽनागतार्थेऽप्यतीते // 166 // इह युक्त्या विचार्यमाणो वेदः स्वयम्भून भवति / कुतः ? आह-वेदशब्दस्यार्थवाचकत्वात् / इह यः शब्दोऽर्थवाची स कण्ठताल्वादिप्रयत्नेन जनितो यस्मात्, तस्मान्न 20 स्वयम्भूरिति सिद्धम् / अथ नायं वेदशब्दः, अन्यो वेदः कर्णविवरान्तरे सर्वशब्दार्थैकलोलीभूतो नित्यः, तस्यायमभिव्यञ्जक इति सिद्धम् / अत आह-इह यदि सर्वशब्दार्थंकलोलीभूतत्वेनावस्थितो नित्यो वेदस्तदा घट' इत्युक्ते सति कर्णविवरान्तरे कोलाहलेन भवितव्यम् ; न चैवम्; तस्मादियं प्रतिज्ञा वृथा-नित्यः शब्दोऽपरोऽस्ति व्यापकोऽर्थस्याभिन्नः / यदि 25 शब्दार्थयोरेकत्वम्, तदा अग्निशब्द उक्तः स्वमुखे(ख) किं न दहति ? तस्मान्न वेदस्य नित्यत्वम्, नार्थेन सहैकत्वमिति सिद्धम् / किञ्चान्यत्; इह किल श्रूयते यदा वेदाभावो T333 भवति, म्लेच्छैर्वेदधर्मे उच्छादिते सति, तदा ब्रह्मा वक्त्रैश्चतुभिः प्रकटयति पुरा वेदशब्देन चार्थः(र्थम्), 'इन्द्रः पशुरासीत्' इत्यादिपाठेनेति / अतोऽर्थोऽन्यो वेदोऽन्य इति 1. भो. bLais Pa Mi HDor Ba (आदानानिक्षेपण); "ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः" (तत्त्वार्थसूत्र 9.5) / 2. "मतिश्रुताऽवधिमनःपर्यायकेवलानि ज्ञानम्" (तत्त्वार्थसूत्र 1.9) / 3. "तदनन्तरमूवं गच्छत्यालोकान्तात्" (तत्त्वार्थसूत्र 10.5) / 4. ख. पुस्तके 'तस्मात्' इति नास्ति / 5. क. ख. पट /

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320