Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 301
________________ 258 विमलप्रभायां [अध्यात्मइति वचनात् कर्ता आत्मा कर्म काल: प्रकृतिगुणाः शून्यता नष्टधर्मा निर्वाणं काष्ठावस्थातः' / एभिः सार्द्ध षण्मार्गादिकं वेदितव्यमिति नियमः* / इह शरीरे षण्मार्गाः षड्विषयेषु प्रवर्तका इति / पञ्चतत्त्वमिति आकाशादिधातुसमूहम् ; परपदमिति षष्ठो ज्ञानधातुः; अखिलमिति सर्वधात्वेकलोलीभूतम्; चकारादपरं मन्त्रदेहमित्यालिकाल्यात्मकं मन्त्रतत्त्वमिति / विद्येति आनन्दादिकामतत्त्वम्; आत्मेति आत्मतत्त्वं नित्यम्; सच्छिवत्वमिति शिवतत्त्वं सर्वव्यापि / तस्य रूपपरिवर्जितस्य त्रिविधा [153b] पदगतिः-पिण्डस्था, पदस्था, रूपस्था कायवाचित्तविकल्पर्मिणो, तस्यास्त्रिविधपदगतेर्योजनमिति / एषां षण्मार्गादीनामुत्पादकाले योजनं मेलापक(नम्) इति, मृत्युकाले त्यागभावः, तेषां विघटनमित्यर्थः। बिन्दोर्भदं शिवत्वमिति इह शुक्रबिन्दोर्भेद च्यवनसुखावस्थालक्षणम्, तदेव शिवत्वम् ; सकतनुगतमिति चराचरव्यापि / द्वादशग्रन्थ(न्थि)भेदा इति इह प्राणिनां तनुगता द्वादशराशयो ग्रन्थिशब्देनोच्यन्ते, तेषां द्वादशराशीनां भेदा वर्षायन कालयुगऋतुमासपक्षदिनघटिकापाणीपलश्वासा इति / एतत् सर्व हि यत्र सिद्धान्ते प्रभवति नियता देशना सा शिवस्य / [इति] शिवमतनियमः। 1. क. ख. कायावस्थातः / 2. क. ख. शिवत्वं; भो. Si Bahi De Nid (शिवतत्त्वं) / 3. ख. वर्षापन / *. वैष्णवमतानुबन्धेन (शैव)मतस्य कथं समुत्थानमिति प्रश्नं समादधता 'एकमूर्तिस्त्रयो देवा' इत्याद्युक्तं टीकायाम् / तं स्फुटीकुर्वता खेस्- ड्रब- जे- महाभागेनोक्तं यत् गीतावैष्णवमते कर्ताऽस्तीत्यनेन परमाणुकर्तृवादः फलदायकत्वेन चेश्वरक वादोऽङ्गीकृतः, तदनुरोधेन शैवमतस्य समुत्थानं प्रसङ्गसङ्गतमेवेति / भोटे यत् तदित्थम्- . "hDir Debi Nan Du hDus Pa gLuhi Chos Mra Ba Lha Khyab h Jug Gi rJes Su hJug Pahi Bye Brag Pa.Dan Rigs Pa Can Pa Dag gi \Dod Pa "Di ITa ste. Byed Pa Po Yod Pa Dan Ses Pa Ni hJig rTen Thams Cad Tsom Pa Po rDul Phran rTag Pa Cha Med Yod Pa La bSad dGos Kyi. Thams Cad Byed Pa Po Tshan Paham Khyab hJug Yod Pa Dan Zer Ba Don Ma yin Te. Hog Tu hDi Dag hGog Pahi Kabs rDul Phran Cha Med Byed Pa Po yin Pa La dGag Pa gSuns Kyi Khyab bjug Byed Pa Po Yin Pa La dGag Pa Ma gSuns Pahi Phyir Ro." (bGrel Chen Dri Med Hod hGrel bSad--Ga', page 161A). उपरिलिखितभोटांशस्य संस्कृतानुवादः"अत्र अस्मिन् संगृहीतेषु गीताधर्मवादेषु वैष्णवेषु वैशेषिकनैयायिकयोर्यद् अभिमतम् तत कर्ता अस्तीति सर्वलोकस्य रचयिता नित्यनिरवयवपरमाणुः अस्तीत्यर्थकम, न तत्र सर्वकर्ता ब्रह्मा वा विष्णुर्वा अस्तीति अभिमतम् अत एवाने तयोः खण्डनावसरे निरवयवपरमाणोः कर्तृत्वमेव दृषितम्, नैव तत्प्रसङ्ग विष्णोः कर्तृत्वं खण्डितम्"। '

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320