Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ स्वपरदर्शनव्यायविचारमहोद्देशः 251 नास्तीशः कर्मपाकोऽपि च गणविषयान् भूतवृन्दं हि भुङ्क्ते तस्याभावे फलं न स्फुटममरगुरोर्देशना वेदितव्या / कर्ता(l) सृष्टं समस्तं सचरमचरजं तायि(जि)नां भुक्तिहेतोः स्वर्गस्तस्य प्रतोषाद् भवति खलु नृणां देशना रह्मणः सा // 164 // इदानीं लोकायतमतमुच्यते नास्तीत्यादि इह देहिनां नास्तोशः, कर्ता नास्तीति; कर्मपाकोऽपि च नास्ति / गुणविषयानिति गुणाः सत्त्वादयः, विषया गन्धादयः; भूतवृन्दमिति पृथिव्यादिकम्. तान् भुङ्क्ते; तस्य भूतवृन्दस्याभावे मरणान्ते कर्मफले (फल) न। हरीतकीगुडादिसंयोगान्मदिराशक्तिवत् भूतानां संयोगशक्तिः, तस्याभावे न कश्चित् परलोकं कायोऽस्तीति स्फुटममरगुरोर्ब्रहस्पतेर्देशना वेदितव्येति लोकायतमतनियमः। इदानीं म्लेच्छतायि(ज़ि)नां' मतमुच्यते कर्ते (त्रै)त्यादि इह कर्ता(l) रह्मणा (रहमानेन) सृष्टं समस्तं सचरं जङ्गमम्, अचरं स्थावरं वस्तु / तायि(जि)नामिति म्लेच्छानां श्वेतवासिनां भुक्तिहेतोः / स्वर्गस्तस्य रह्मणः प्रतोषात्, अप्रतोषान्नरको भवति खलु नृणां रह्मणः / सा पूर्वोक्तक्रियेति तायि(जि)-६ मतनियमः / [154a] इदानी क्षपणकमतमुच्यते त्रैकाल्यमित्यादिनात्रैकाल्यं द्रव्यषट्कं नवपदविहितं जोवषट्कायलेशाः पञ्चान्ये सन्ति काया व्रतसमितिगतिर्ज्ञानचारित्रभेदाः / जीवः कायप्रमाणो ह्यपरिमितभवैर्ब्रह्मचर्येण मोक्षो / यस्मिन् मोक्षप्रमाणं ह्यपरि निगदितं देशना सा जिनानाम् // 165 // 20 - इह क्षपणकसिद्धान्ते स्याद्वादे द्रव्यपर्यायाभ्यां नित्यानित्यव्यवहारः। तत्र त्रैकाल्यमिति अतीतमनागतं वर्तमानं चेति द्रव्यषट्कमिति जीवः, पुद्गलः, कालः, आकाशम्, पुण्यम् (धर्मः), पापं (अधर्मः) चेति / एषां मध्ये जीवः काल आकाशवत् (आकाशं) नित्यम्; नवपदविहितमिति जोवाजीवाश्र(स्र)वसंवरवर्जनम्, (निर्जर)बन्धमोक्षगत्यागतिश्चेति; जोवषटकायलेशा इति पृथ्वोकायलेशा:(श्या), अपकायलेशा (श्या), तेजकायलेशाः- 25 (श्या), वायुकायलेशाः(श्या), वनस्पतिकायलेशा (श्या), त्रश(स)कायलेशाः(श्या) इति 1. भो. sTag gZig (ताजिनां)। 2. क. ख. ब्रह्मणा, ब्रह्मणः; भो. Rahma Na (रह्मण)। 3. भो. Tag gZig (ताजिनां)। 4. क. रक्षणः; ख. ब्रह्मणः; भो. Rahma Na (रह्मण)। 5. क. रक्षणः; ख. ब्रह्मणः; भो. Rahma Na (रह्मण)। 6. भो. Tag gZig (ताज़ि)। 7. भो. Nam mKhah (आकाशम्)।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3239dcf5a5c94351983ba231935d0fc09be5b91e8423f37402f3841b6fbb6ef9.jpg)
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320