Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 296
________________ पटले] T331 10 रसायनादिबालतन्त्रमहोद्देशः 253 इदानीं मण्डले पूजिताः सुखकरा उच्यन्ते नागेत्यादिनागा यक्षा ग्रहा येऽपि च दनुकुलजा राक्षसा वै पिशाचाः शाकिन्यो दुष्टनागा नररुधिररता डाकिनीरूपिकाश्च / कुम्भा(कूष्मा)ण्डाः क्षेत्रपालास्त्वपि गणपतयः क्षेत्रवेतालसिद्धाः सापस्माराः खगेन्द्राः परमसुखकराः पूजिता मण्डले स्युः // 154 // इह नागादिभिः पीडितानां नागादयःपूजिता वक्ष्यमाणमण्डले सुखकरा भवन्ति / एषां लक्षणान्यनेकानि भूततन्त्रोक्तानि मुद्राबन्धेन ज्ञातव्यानि, अत्रैव वक्ष्यमाणे कियन्तीति / इदानीं क्रूरपूजार्थ मण्डलं मण्डलस्थानमुच्यते क्रूराणामित्यादिकराणां पूजनाथं भवति नरपते मण्डलं ग्रामबाह्ये वृक्षस्थाने श्मशाने सुरवरभुवने सङ्गमे वा नदीनाम् / हस्तं वा द्वौ चतुष्कं त्रिदशनवनृपैर्देवतानां प्रमाणेमध्ये त्वष्टारचक्रं भवति गुणवशान्मण्डलादर्द्धभागम् // 155 // [151a] इह क्रूराणां पूजनार्थ मण्डलं प्रामबाह्ये भवति / तत्रैवैकवृक्षस्थाने, श्मशाने, सुरवरभुवन इति शून्यदेवालये, सङ्गमे वा नदीनाम्, हस्तं वा द्वौ चतुष्कमिति / इह विभवानुरूपत एकहस्तं मण्डलम्, द्विहस्तम्, चतुर्हस्तं वेत्यारभ्य यावद् हस्तसहस्रं वा तावद् वर्तयेदाचार्यः / त्रिदशनवनपैरिति इह नवदेवतानां प्रमाणम् एकहस्तं मण्डलम्, त्रयोदशानां द्विहस्तम्; नृप इति षोडशानां चतुर्हस्तम्, इत्यारभ्य यावद् विंशत्यधिकषोडशशतानां हस्तसहस्रपर्यन्तं वर्तयेत विभवतः। इह सर्वमण्डलानां मध्ये अष्टार चक्र वा पद्मं भवति मण्डलावर्द्धभागिकम् / द्वारं चक्राष्टभागं भवति खलु तदर्द्धन वेदी च हाराः प्राकारा वेदिकार्डास्त्रिगुणमपि भवेत् तोरणं द्वारमानात् / वृत्तं कुण्डं त्रिभागं सितकमलमयं पूरितं श्वेतरङ्गैः कुर्यात् श्रीपञ्चरङ्गैः स्वकुलदिशि गतं देवतानां स्वचिह्नम् // 156 // द्वारं मण्डलचक्राष्टभागम्, द्वारार्द्ध वेदिका हारभूमिश्च, पञ्चप्राकाररेखा 25 वेदिकार्द्धन रत्नपट्टिकापि, द्वारमानेन नियूह पक्षकं कपोलं चेति, तोरणं त्रिगुणं द्वारात् इति मण्डललक्षणनियमः। इदानीं शान्तिककुण्डमुच्यते वृत्तमित्यादि इह वक्ष्यमाणकुण्डानां मध्ये वृत्तं कुण्डग्राह्यं शान्त्ये, तदेव त्रिभागमिति वितस्तिद्वयं विष्कम्भम्, वितस्त्येकं गम्भीरम्; शि(सि)तकमलमयमिति गर्भमध्ये 30 20

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320