Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 294
________________ पटले रसायनदिबालतन्त्रमहोद्देशः 251 इदानीं वासरीणां विधिरुच्यते दुग्धेत्यादिना इह दशदिनाभ्यन्तरे गृहीतस्य बालकस्य शान्त्यर्थं दुग्धम्, आज्यम्, पायसान्नं वधिगुडसहितं पोलिका'मोदकांश्च गन्धं पुष्पं प्रदीपं बली दीयते वासरीणाम्, स्नानं धूपं वक्ष्यमाणमिति वासरीणां त्रिरात्रबलिनियमः / [149b] इदानीं मासाख्यानां विधिरुच्यते पक्षे(पक्वे)त्यादिनापक्वान्नं पञ्चभिन्नं दधिगुडसहितं पोलिकामोदकांश्च गन्धं पुष्पं प्रदीपं स्नपनमपि दलैः पञ्चरात्रं प्रकुर्यात् / गोदन्तं मेषशृङ्गं मृगनखचिकुरं सर्पनिर्मोकधूपं बालानां मासजानां कथितमपि बलिं पुष्टिहेतोः समस्तम् // 150 // इह दशदिनादूर्ध्व मासः, तत एकादशमासान् यावत् मासजातकानां शान्त्यर्थं 10 बलि मातृणां दद्यात्, पक्वान्नं पञ्चभिन्नमिति घृतेन पक्वं पूरिका घृतपूरम्; सौमाली सेवालवटकानिति पञ्चभिन्नम् अपरमोदनं दधिगुडसहितं पोलिकामोदकांश्च / गन्धमिति चन्दनम्, सुगन्धपुष्पं तिलनैलेन' प्रदीपं घृतेन वा। स्नपनमपि दलैरिति पञ्चक्षीरवृक्षाणामश्वत्थादीनां पत्रैः किञ्चित् क्वथितोदकेन सोष्णेन बालं स्नापयेत. पञ्चरात्रं यावत् समस्तं कुर्यात् / स्नानावसाने बालस्य धूपं दद्यात्, गोवन्तम्, मेषशृङ्गम्, मानुष्यनखम्, मृगरोमम्, चिकुरम्, सर्पनिर्मोचम्(चकम्) / एतदेकीकृत्वा(त्य) तीव्राङ्गारेण धूपम्, देवताबलौ पूर्वोक्तगन्धधूपादिकं देयं चतुर्दिक्षु ग्राममध्ये चेति नियमो बालानां मासजातानां कथितमपि पुष्टिहेतोः समस्तम्। / इदानीं संवत्सरीणां बलिरुच्यते पञ्चानमित्यादिनापञ्चान्नं पञ्चखाद्यं जलचरपिशितं गन्धपुष्पं प्रदीपं मद्यं पूर्वोक्तधूपं स्नपनमपि तथा दिग्बलिं दिग्विभागे। बालानां वर्षजानां प्रकटितमवनौ पुष्टिहेतोर्नरेन्द्र गर्भाद् वर्षत्रिपञ्च प्रभवति नियतं योगिनीनां प्रपूजा // 151 // इह दशमासादूर्ध्व मासद्वयं वर्षमिह गृह्यते; तस्मात् पञ्चदशवर्षाणि यावत वर्षजातकानां मा[150a]तृपोडितानां शान्त्यर्थं संवत्सरीणां बलिं दद्यात् / पञ्चान्न- 25 मिति भक्तं सितं पोतं रक्तं कृष्णं हरितं कृत्वा हरिद्रादिभिः, एतत् पञ्चान्नम् / पञ्चखाद्यमिति पक्वान्नं पूर्वोक्तं जलचरम्, मत्स्यम्, मांसम्, पिशितमिति; गन्धाद्यं . .. 1-2. ख. ग. भो. पुस्तकेषु नास्ति / 3. ग. पुस्तके 'सेवालि' इति नास्ति / 4. ख. तिलेन / 5. क. ख. पञ्चान्नं।

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320