Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 293
________________ 350 विमलप्रभायां [अध्यात्म- . जातानां बालतन्त्रं भवति दिनवशान्मासवर्षप्रभेदात् पञ्च क्रूराः कुमाराः प्रकृतिगुणवशात् संस्थिताः पर्वसन्धौ / बाला(बाल) गृह्णन्ति ते वै स्वतिथिभयगतं नैव मुञ्चन्ति राजन् तेषां शान्त्यर्यमस्मिन् प्रभवति विविधं मण्डले होमकाद्यम् // 148 // जातानां बालानां बालतन्त्रं भवति दिनवशान्मासवर्षप्रभेदादिति / इह बालतन्त्रमिति बालचिकित्सा मातृपीडितानाम्। तत्र वासराख्यानां बलि वक्ष्यमाणं दद्यात् / जातानां जन्मदिनमारभ्य दश दिनं यावत् स्वस्वदिने बालानां पीडां कुर्वतीनां प्रत्येकमासवसा(शा)देकादशता, एकादशमासान् [149a] यावत् / ततः पञ्च दशानां पञ्चदशवर्षान् यावत्, तदुपरि बालकुमारत्वाभावः, षोडशमे(शे) वर्षे शुक्रच्यवना10 दिति नियमः। इदानीं पञ्च क्रूरा उच्यन्ते क्रूरेत्यादि इह भुवितले नन्दादितिथिभेदेन पञ्चतिथीनां सन्धिषु कौमारा आकाशादि- .:. प्रकृतिगुणवशात् संस्थिताः पर्वसन्धौ / ते स्वतिथौ भयगतं बालं गृह्णन्ति, सर्व सामान्य बलिना नैव मुञ्चन्ति बालम् / राजन् इत्यामन्त्रणम् / तेषां शान्त्यर्थमस्मिन् प्रभवति 15 विविध मण्डले होमकाद्य वक्ष्यमाणमिति क्रूरनियमः / इदानी गर्भाख्याभिः पीडितानां गुर्विणीनां भैषज्यमुच्यते कुष्ठेत्यादिकुष्ठोशीरं कसेरु तगरकुवलयं केशरं पङ्कजस्य पिष्ट्वा शीताम्बुना मन्त्रितमपि कुलिशैर्गर्भशूलेषु देयम् / गर्भस्तम्भेऽष्टलोमानि ल(न)कुलशिखिनः पोषयित्वा प्रदेयं / दुग्धाज्यं पायसान्नं दधिगुडसहितं दीयते वासरीणाम् // 149 / / इह यदा गुर्विणीनां गर्भशूलं भवति, तदा भैषज्यम्-कुष्ठम्, उशोरम्, कसेरुम्, तगरमूलम्, उत्पलकन्दम्, पद्मकेशरम्; एतानि द्रव्याणि शीताम्बुना पर्युषितेन पिष्ट्वा अभिमन्त्रितमपि कुलिशैरिति 'ॐ आःहूँ अमुकाया गर्भशूलं हर हर स्वाहा' इति मन्त्रः, अनेनाभिमन्त्र्य गर्भशूलेषु देयमिति नियमः / एवं गर्भस्तम्भे अष्टरोमाणि 25 नकुलस्य, शिखिनो मयूरस्य पिच्छं गृहीत्वा, शीताम्बुना पिष्ट्वा, पूर्ववद्देयान्यभिमन्त्र्य / क्षीरापहारिण्याः क्षीरवृक्षतले स्नापयेत् / सप्तमल्लिकैर्गोक्षीरपूर्णैः क्षीरभक्तेन बलिं दद्यादिति गर्भाख्यानां नियमः। 1. भो. Drug Cu (पष्टि)। 2. भो. Khrus Dan sByin Sreg Gi Bya Ba (स्नानहोमकार्यम् /

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320