Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ रसायनामिहोद्देशः फल(त्रिफल)मिति जातीपालन, कोलम्) अथवा' एला कक्कोलस्वामे, लता कस्तूरिका, शशीति कर्पूरम्, मवमिति कस्तूरी, एषां समभागं कृत्वा शतांशेन गन्धस्य वेधं कारयेत् / सासवैरिति वक्ष्यमाणैर्मदासवेः सार्द्ध वेधं शतांशेन दद्यात् / वेधस्याष्टगुणासमिति वैधनियमः। इदानीं गन्धानां मोवनार्थम् आसवमुच्यते शिखित्याविना इह गन्धशास्त्रीक्तविधिना विस्तरों यत्र यादृश आसवादीनां पाकः स तत्रव गन्धशास्त्र ज्ञेयः / अत्र चे संक्षेपत उक्तः शिवम्बु इति। शिपुरसम्, छागमूत्रम्, कुसुमरसमिति मधु, तेन संमं तुल्यमानम् अग्निना क्वाथवेत्, पुष्पजान्तमिति मधुपर्यन्तम्, तत उद्धृत्य नारिकेलादौ प्रक्षिप्य धान्यराशिमध्ये मासमेकं पक्वं भवति / मृगसमम् आसवं नाभिविमिति. अग्निपाकावसाने नाभिरिति कस्तूरी, अनुक्तमपि 10 कपरम्, त्रिफलम्, तेन स(श)तांशं वेधं दत्वा, ततो धान्ये स्थापयेत्। ततस्तेन गन्धस्य वेध पूर्वोक्तं कारयेदिति नियमः / सर्वस्मिन् गन्धशास्त्रे धूपपाकाय त्रिविधं धूपयन्त्रम्समम्, डमरुकाकारम्, मूनि सरावाकृतिः, मध्येऽङ्गुलद्वयं छिद्रं षडङ्गुलमधर्म कषायोगधूपार्थम्; मध्यममष्ठागुलोच्छितम्; नखगुडपिण्डधूपार्थम्; उत्तम दशाङ्गुलं शीतधूपार्थम्, अस्य यन्त्रस्य तले वालुका सहितं खपरं चूल्लिका मूनि दत्वा 15 द(त)प्त वालि(लु)कायां धूपग्रासं दत्वा, तदुपरि यन्त्रम्, यन्त्रोपरि गन्धकल्कप्रलिप्तमगुल्यर्द्धमुच्छ्रितं मृत्कपालं स्वल्पकल्के नारिकेल' दत्वा धूपं निर्दहेत, दण्डक दण्डार्द्ध धूपप्रमाणं ज्ञात्वा / तत उद्धृत्य कपालं फलकोपरि वस्त्रं दत्वाऽधोमुखं स्थापयेत्, येन धूपो' न गच्छति पाककालेऽपि कपालयन्त्रयोर्मध्ये आवस्त्रेण वेष्टयेत् / इति धूपपाकनियमः। फलपाके बीजपूरकस्य गर्भशस्य"मुद्धृत्य, त्वचं परिवयं, मध्ये गन्धकल्क प्रक्षिपेत्, बाह्ये वल्कलैर्वेष्टयित्वा मृदाङ्गुलेकोच्छितं लैपयेते; पश्चाद 2 गोकर्षाग्निना पुटप्रयोगेण पाचयेत्, यावत् तल्लेपोऽग्निवर्णो भवेत् / तत ऊध्वं गन्धनाशो भवति, ततोज्नेरुद्धृत्य शोति(ती)भूतं गन्धं नाभ्यादिभिर्वेधयेत् पूर्वोक्तविधिनेति फलपाकनियमः / दलपुटपाकेऽपि केतकोपत्रः [146a] पुटिकां कृत्वा मध्ये गन्धकल्क क्षिपेत् / शेष 25 फलपाकवत् / हंसपाके स्वर्णकलशं रौप्यं वा गर्भे गन्धकल्केन लिप्त अगुलैकेनोच्छितेन ताम्रकटाहे गन्धोदकार्द्धपरिपूरिते प्लवमानं 4 कथनमनुभवन्'५ हंस इव प्लवमानो"हंसपाक 1, क. ख. ग. पुस्तकेषु नास्ति / 2. क. ख. विविधा / 3. क. ख. गुलमध्यमं / 4. क. ख. डनुभं / 5. क. ख. ग. बालिका / 6. क. ख. चूणिका। 7. क. ख. .. दप्त। 8. भो. bDug Pa hDZin Pa (धुपग्राहम)। 9. ग. नालिकेरं / 10. भो. Du Ba (धमः) / 11. भो. hBras Bu (०फलम्)। 12-13. क. ख. यवानो। 14. क. ख. पूर्वमानं / 15. क. ख. भवन्तु / 16. क. ख. पूर्वमानो।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/179727024c59476ed42433dfea49172c93dbac0624c81a3f86eadb7c766fe26a.jpg)
Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320