Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले 1 समुदयसत्यादिमहोदेशः बृहस्पतिः, वायव्ये शुक्रः, कुवेरे शनिः, ईशाने कूलिकाभोगे केतुः', अपरभोगार्धे राहुरिति प्रकटितघटिका नाभिपच षष्टिः। दल चतस्रः शून्यघटिकादलानि, शेषाणि षष्टिदलानि षष्टिमण्डलवाहिन्यः दलानि षष्टिघटिका इति प्रत्येकवारस्य षष्टिसंख्या / 5 मध्ये षोडशदलेषु दलद्वयं शून्यवाहकम् / चतुर्दशदलेषु चतुर्दश पदानि चन्द्रस्य भूताभूतेष्वित्यादीनि / तत्र प्रथमदले भृता(भूता) इति पञ्चघटिकात्मकं पदम्; एवं द्वितीये 5 तृतीये / वेदा इति चतुर्थघटिकात्मकः चतुर्थदले / शिखि[नि] तिस्रो नाड्यः पश्चमे पदम् / कर इति द्विघटिकात्मकं पदं षष्ठदले। शशिन इति एकघटिकात्मक पदं सप्तमं सप्तमे दले / एवं विलोमेनाष्टमे एकघर्षाटकात्मक" पदम्, नवमे द्विघटिकात्मकम्, दशमे विघटिकात्मकम्, एकादशमे(शे) चतुर्घटिकात्मकम्, द्वादशमे(शे) पञ्चघटिकात्मकम्, त्रयोदशे चतुर्दशेऽप्येवं ज्ञेयमिति / चन्द्रपदानि मनुसंख्यकानि भवन्ति / नृप इत्या- 10 मन्त्रणम् / सम्भोगचक्रे कण्ठचक्रे द्वात्रिंशद्दलेषु दलचतुष्टयं शून्यम् / अन्येष्वष्टाविंशतिदलेषु अभीचि(अभिजित)सहितान्यष्टाविंशत् ऋक्षाणि भवन्ति; तानि वामावर्तेन पूर्वसप्तशलाकासू मध्ये मध्यमायां रेवत्यन्तेष / अश्विनी द्वितीयायाम, भरणी तृतीयायाम, कृत्तिका चतुर्थ्याम्; ततो दण्डनक्षत्रं स(श)लाका सप्त सप्तदलसंज्ञा नाड्य इति / तत उत्तरस(श)लाकासु सप्तसु वामावर्तेन प्रथमस(श)लाकायां रोहिणी, द्वितीयायां मृग- 15 शिरा, तृतीयायामा, चतुर्थ्यां पुनर्वसुः, पञ्चम्यां पुष्यः, षठ्यामश्लेषा, सप्तम्यां मघा, तत एवमन्यापि वेदितव्या इति / ऋक्षाणां नाभिपयेषु पुनरपि घटिकाः षष्टि वेदितव्येति / नाडयः पाणीपलानि षष्टिः, षष्टीनां षट्त्रिंशत् श] तानि स्फुटसकलतनो हस्तपादाविसन्धाविति वक्ष्यमाणे वक्तव्यो विस्तरेणेति वारादिनियमः [99b] / इदानीं प्राणशक्तेर्नाभ्यादिचक्रमणमुच्यते नाभीत्यादिनानाभ्यब्जे सूर्यपत्रे भ्रमति परकला संक्रमन्ती क्रमेण संक्रान्तिः प्राणयुग्मैद्विगुणनवशतैः ककिलग्ने नरेन्द्र। यस्मिन् लग्ने स्थितोऽर्को भ्रमति दिननिशं तत्र सा वेदितव्या ज्ञातव्यं लग्नमानं धनमृणविषुवं चायनं सव्यमानम् / / 38 // इह यथा बाह्य सूर्यो द्वादशराशिषु वर्षसंक्रान्तिभेदेन भ्रमति, तथाध्यात्मनि 25 द्वादशराशिषु प्रतिदिनं द्वादशसंक्रान्तिभेदेन प्राणशक्तिश्च भ्रमति / नाम्यब्जे सूर्यपत्र भ्रमति परकला प्राणशक्तिः संक्रमन्ती क्रमेण द्वादशराशिपत्रेषु / संक्रान्तिः प्राणयुग्मैद्विगुणनवशतेरिति / इह बाह्य सूर्यस्याष्टादशशतैर्दण्डैरेकसंक्रान्तिर्भवति, तथा 1. क. ख. सति; ग. शनिः; भो mJug Rins ( केतु ) / 2. क. ख. पुस्तके - 'दल' इति नास्ति / 3. क. ख. पुस्तके 'दलानि' इति नास्ति / 4. क. ख. भृताभृतेषु; भो. hByui Das hByut be mDah (भूताभूतेषु) / 5.6. क. ख. एकघटिकापदम् / 7. मो. brGya Phrag Sum CurTsa Drug (षट्त्रिंशत् शतानि)।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/023a207ad2332eba5d3298e2eca757fc31632d799c0b001dfc33bc5baed41880.jpg)
Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320