Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले] चक्रवत्तिम्लेच्छयुद्ध-कालचक्रकुलतन्त्र-नाडीकुलोत्पत्ति-महोद्देशः 185 गणादशीत्युत्तरसहस्रात् पक्षच्छेदेऽभिधानमिति पञ्चदशभागेन लब्धाभिर्देवतादेवतीभिरभिधानं भवति / कालचक्राधिपतिमिथनेन साद्धं द्वासप्ततिदेवतादेवतीलक्षणमिति त्रिवर्षभेदैर्योगिनीतन्त्रनियमः; लोकसंवृत्या त्रिकुलषटकुलषट्त्रिंशत्कुलानि योगिनीतन्त्र इति योगिनीतन्त्रनियमः / / मायाजालं दिनाङ्गास्त्रि(ङ्गात् त्रि)विधमपि भवेद्रन्ध्रवेदेश्च सम्यक् / भूतो भूतार्णवैः स्याच्छिखिजलनिधिभिः श्रीसमाजर्तुभेदः / तत्त्वाख्यं षड्भिर्टानं त्वपरमपि तयोरर्धभेदैविभिन्नोभूयो मिश्रो द्विभेदस्त्रिदशनवदिशाभिश्च रन्ध्रः सतत्त्वैः // 52 // इदानी क्रियायोग-योगतन्त्राणि त्रिषट्प्रकारभेदेनोच्यते(न्ते) मायाजालमित्यादिना - 10 इह मध्यमात्रिपक्षदिनानि पञ्चचत्वारिंशदिनानि द्वादशगुणितानि तानि दिनाङ्गानि चत्वारिंशदधिकपञ्चशतसंख्यानि' भवन्ति प्रतिदिनद्वादशलग्नभेदादिति / तस्माद् दिनाङ्गात् चत्वारिंशदधिकपञ्चशताद् व्यवकलितं मायाजालं त्रिविषमपि भवेत्, एक रन्ध्रवेदैरेकोनपञ्चाशद्भिर्देवतायुग्मैर्भवति, भूतो द्वितीयं भूतार्णवेः स्यादिति पञ्चचत्वारिंशद्भिर्युग्मैर्देवतानां भवतीति / अपर शिखिजलनिषिभिः त्रयश्च- 15 त्वारिंशद्भिर्दवतायुग्मैरिति / अतो दिनाङ्गाद् व्यवकलितस्त्रिभे[105a]दैः सप्तत्रिंशदधिकशतसंख्या भवन्ति, द्विगुणदेवतादेव्यः चतुःसप्तत्यधिकद्विशतसंख्या भवन्ति, इति मायाजालनियमः। अस्य प्रपञ्चार्थः पञ्चमपटले वक्तव्य इति मायाजालक्रियायोगतन्त्रनियमः। इदानीं षट्प्रकारः समाजभेद उच्यते तस्मात् व्यवकलितावशेषाद् दिनाङ्गात् श्रीसमाजर्तुभेद इति / तत्त्वाख्यमिति पञ्चविंशत्यात्मकम्, तस्माद् दिनाङ्गात् पञ्चविंशद्भिर्व्यवकलितैर्देवतायुग्मैर्भवति / अपरमतः पञ्चविंशतिः षड्भिीनमेकोनविंशत्यात्मकम्, एकोनविंशतिभिर्देवताभिर्व्यवकलितैरिति / अपरमपि तयोः पञ्चविंशत्येकोनविंशत्यात्मकयोरर्धभेदैविभिन्नो भेदो भवति / पञ्चविंशत्यर्धः सार्द्धद्वादशैकोनविंशत्यर्द्धः सार्द्धनव, अतोऽर्द्धः सार्द्ध द्वादशे 25 प्रविशति / तत्र एकोनवात्मकः समाजः, अपरस्त्रयोदशात्मकः / भूयोऽपरो मिश्रो विभेदो भवति समाजः। त्रिदश इति त्रयोदश। नवदिशा एकोनविंशतिः। एभिस्त्रिदशनवदिशाभिश्च द्वात्रिंद्भिदेवतायुग्मै समाजो भवति; रन्ध्रनवभिः सतत्त्वैः पञ्चविंशद्भिः सहः द्वितीयः समाजः चतुस्त्रिशद्भिर्देवतायुग्मैर्भवति / एवं समाजः षड्भेदभिन्नः / 1-2. क. पुस्तके '०'संख्यानि' इत्यारम्य •'पञ्चशताद्' यावत् नास्ति / 3. क. दिनाङ्गा।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b2d44a72a639e314348be56c08ce23dcbe93bea6eb611f0136f1534bb5d92fb9.jpg)
Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320