Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 208 विमलप्रभायां / अध्यात्म शून्यनेत्राद्रिसंख्या इति विंशत्यधिकसप्तशतानीति / एवं कालः शताब्दैः षट्त्रिंशद्भिः सहस्रदिनैः क्रमति / सुरनृणां वा(स्वा)युष[1] द्वासप्ततिनाडीसहस्रं पञ्च[121b]मण्डलवाहकम्, चन्द्रादित्यचरणमिति / स्वस्वमानैः पूर्वोक्तः सूक्ष्मतनु'[ज]भूतदेवादिदिनैरिति नाडीच्छेदनियमः। इदानीं कालनाडीस्वभाव उच्यते दष्टमित्यादिनादष्टं व्याधिः प्रहारो यदि भवति नृणां कालनाड्यां कदाचित् / शीघ्र तेनाश्रयेण प्रविशति सहसा मूलचक्रेषु कालः / रुद्ध्वा चक्रषु नाडी रविशशिगमनं छेदयित्वा समस्तं मध्ये सूक्ष्माश्रितं यद् हरति नरपते जीवितं प्राणिनां च / / 72 / / . ___ इह शरीरे कालनाड्यां मध्यमाप्रवाहकाले यदि दष्टं भवति, व्याधिर्भवति, प्रहारो वा नृणां कदाचित्; तदा शोधू तेनाश्रयेण प्रविशति सहसा मूलचक्रेषु षट्सु / कालो महातमो वायुः। स च प्रविष्टः सन् षट्चक्रेषु षट्पञ्चाशदम[धि]कनाडोशतम्, असौ रुद्ध्वा रविशशिगमनं सव्येतरनाड्यां छेदयित्वा समस्तं मध्ये सूक्ष्माश्रितम्, अवधूतीनाड्याश्रितं यज्जीवितं प्राणवायुः तद् हरति नरपते जीवितं प्राणिनामिति 15 कालनाडीनियमः। इदानीं धर्मचक्रादौ चन्द्रचरणा न्युच्यन्ते हृत्पद्म इत्यादिनाहृत्पद्म श्रीललाटे चरति शशिपदं भूतदिग्वासराख्यं सम्भोगे नाभिचक्रे नवदशसहितं रुद्रयुग्मं जिनाख्यम् / तत्त्वाख्यं सप्तरात्रात्त्यजति पुनरसावुत्क्रमन् यः शशाङ्को बिन्दौ पूर्णा प्रकृत्य प्रविशति हृदये शुक्लपक्षे क्रमेण / / 73 // इह चन्द्रस्य चरणभेदेन चतुर्दशभागेन समविषमगतेन तिथिषु वृद्धि निर्वा / सा सप्तमदिने सप्ततिथिषु[122a] पञ्चविषयगुणा बालकुमारादिभेदेन सप्तमे दिने वृद्धिहनिर्वा निवर्तते विंशत्यधिकशतचरणेषु पूर्णेषु / अत्र विंशत्यधिकशतांशान्युच्यन्ते इह चतुर्दशभागावशेषे एकचरणे दृष्टे तद्दिनकलायाः षष्टिनाडिकांशानां मध्ये पञ्चनाडिकांशाः कलाया धनेऽधिका भवन्ति, कृष्णायाः शुक्लाया वा ऋणस्थाने हीना भवन्ति / द्वितीये दिने द्वितीयायाः पञ्चांशाः, प्रथमायाः कुमारभेदेन द्विगुणा ज्ञातव्या 1. क. ख. तत्र; भो. Lus sKyes ( तनुज)। 2-3. क. ख. तद्वति / 4. क. ख. ०वरणा।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/129b822191084e91ab2c9ecb598697265b3374aadf61d663448817d24b0d4f7f.jpg)
Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320