Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 232 10 विमलप्रभायां [अध्यात्मतस्य षड्मासाभ्यन्तरेण योनिमन्थाने बोधिचित्तं स्खलितं विधृतं सत् कुष्ठरोगं हरति, कुम्भकयोगेन, अत्र नास्ति सन्देहस्तथागतवचने / न केवलं कुष्ठं हरति, अपि तु सप्तत्यब्दां जरां वै सपलितां द्विवर्षप्रपूर्णे मुद्रासङ्गे बोधिचित्तं स्खलितमिति / अनेनैव योगेन योगिनः कतिपयदिवसः कालचक्रत्रिवर्षत्रिपक्षदिनैस्तदूर्ध्वमिति जराविनाशोवं मुद्रासिद्धिर्भवति मार्गचित्तप्रसङ्गाविति कृष्ठोपशमननियमः। यच्छब्दो हृत्प्रदेशे भवति वरनृणां श्रूयते श्रोत्ररन्धस्तस्मादूर्ध्वं हि मुष्टी(मूछी)(व)जति समरसं त्याजितं चैकभूतम् / / यच्छब्दं जीवलोके भवति (वदति) च बलजं (भवज) तत्तु देव (:)शृणोति विज्ञानं चैव दूरा[त्]श्रवणमपि विभो यो(भोर्यो)गिना भावनीयम् // 116 // कृत्वा पर्यङ्कबन्धं विकसितवदनोऽन्योऽन्यदन्तं स्पृशेन्न आकृष्टो बाह्यवातस्त्वमृतरससमो नाभिचक्रे प्रविष्टः / सन्तापं क्षुत्पिपासां हरति वरतनौ सन्निरुद्धो विषं च श्वेतो बिन्दुर्ललाटे सु(स्व)रपरिकरितो मुञ्चमानोऽमृतं वा // 117 // घ्राणे रन्ध्रद्वयेन त्वपि वि(पि)हितमुखे बाह्यवातः समस्तः प्राणेनाकृष्य वेगात् तडिदनलनिभो घट्टितोऽपानवायुः / काले नाभ्यां स योगाद् (काले नाड्या संयोगाद्) व्रजति समरसं - चन्द्रसूर्याग्निमध्ये अन्नाद्यां क्षुत्पिपासां हरति वरतनौ (अन्नाद्य क्षुत्पिपासामपहरति तनौ) चामरत्वं ददाति // 118 // * 116 तः 121 पर्यन्तं षट्श्लोकानामनुवादो भोटानुवादे (कञ्जूरसंग्रह) नोपलभ्यते तेषामुपरि विमलप्रभाव्याख्या च संस्कृतप्रतीषु भोटानुवादेषु वा नोपलभ्यते / अथ चैतद्विषये आचार्य-खेस-ड्रब-जे तत्पूर्ववत्तिभिःबुत्तोन्-मी-फम्-रिन्पोछे-आदि-आचार्यरपि स्व-स्व-व्याख्यानेऽत्र शङ्का नोत्थापिता, अतस्तैः मौनमेवाचरितम् / सम्भावये तत्र हेतुः तथाविघसंस्कृतप्रतीनां भोटदेशे अप्राप्तिः यत्रषां षण्णां सन्निवेशः स्यात् / अस्मिन् विषये प्राप्तसंस्कृतप्रतीनामपि द्विधा स्थितिः-कुत्रचिदुपलब्धिः षण्णां कुत्रचिन्नेति / प्रस्तुतसंस्करणस्याधारभूतायां प्रतौ यथा षट्श्लोका उपलब्धा दृश्यन्ते एतादृशा एव च अन्या अपि द्वि-त्रि-प्रतयः सन्त्येव डा० लोकेशचन्द्रसंरक्षित-प्राचीनग्रन्थसंग्रहालये / किन्तु बिहारराज्ये पटनास्थितकाशीप्रसादजायसवाल-अनुसन्धान-संस्थान-संरक्षितायां पुरातन्यां विभूतिचन्द्रलिखितायां प्रतौ श्लोका एते नैव प्राप्यन्ते, स्युस्तथाविधा अन्या अपि काश्चित् प्रतयः / एतस्यां स्थिती अप्राप्तिवशादेव भोटानुवादो भोटविद्वद्भिर्न कृतः स्यात् / 15

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320