Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 278
________________ पटले] . रसायनादिवालतन्त्रमहोद्देशः इदानीमवधूतयोगिभैषज्यमुच्यतेअक्षोभ्यं किञ्चिदुष्णं मुखरुजशमनं दन्तशूलस्य चैव प्रत्यूषेऽक्षोभ्यनस्यं शिरसि रुजहरं तोयनस्यं तथैव / कर्णे नेत्रं (त्रे) प्रविष्टं त्वु(ह्यु)भयरुजहरं मूत्रमुष्णं च शीतं भूतार्तेऽक्षोभ्यनस्यं त्रिकटुकसहितं सौख्यदं चापि दष्टे // 124 // 5 इह यदा योगिनो मुखरोगो भवति, अक्षोभ्यं किश्चिदुष्णं कृत्वा मुखे घृतं मुखर(रु)जस(श)मनं भवति / दन्तशूलस्य चैवेति चकारा[139b]द् दन्तकीटस्य च / यदा शिरसि रोगो भवति, तदा प्रत्यूषे अक्षोभ्यं नस्यं कृतं शिरसि रुजहरं भवति / तोयनस्यं तथैव योगिनामिति / यदा कर्णरोगो भवति, तदा मूत्रमुष्णं कृतं कर्णे प्रविष्टं नेत्ररोगे शीतं कृतं नेत्रे प्रविष्टं यथासंख्यमुभयरुजहरम, मूत्रमुष्णं च शीतमिति / 10 भूतात इति भूतप्रेतादिग्रस्ते अक्षोभ्यनस्यं त्रिकटुकेन सहितं सौख्यदं चापि वष्टे, सर्पदष्टेऽपि सौख्यदं भवतीति मुखरोगाद्युपस(श)मननियमः / विण्मूत्रं शक्ररक्तं नृपत(ल)लसहितं भक्षितं चायुदं स्यात् / सध्यानं पुष्पनस्यं हरति सपलितानङ्गजातान् जरांश्च / भुक्तं पञ्चप्रदीपं सकलरुजहर मक्षिकाच्छदिमिश्रं स्त्रीपुष्पं शुक्रमिश्रं त्वपहरति रुजं भक्षितं वर्षयोगात् // 125 // इदानीं पञ्चामृतयोग आयुवृद्ध्यर्थमुच्यते विडित्यादिना इह 'यथा बाह्ये तथा देहे',(पृ०४७) इति वचनात् बाह्ये पञ्चद्रव्याणि, अध्यात्मनि पञ्चद्रव्याण्येकीकृत्य पञ्चामृतयोगः, ततः पञ्चामृतं भक्षितं योगिनामायुदं स्यादिति / 'भोटाचार्य-श्रीपङ्लो-प्रभृतिभिरपि स्वीक्रियते यत् भोटानुवादे उपलब्धोऽयं व्याख्यांशः मूलसंस्कृतस्य नास्ति, अपि तु केनचिद् भोटदेशीयेन विदुषा भोटानुवादे अयमंश आरोपितः / अस्मिन् विषये खेस्-ड्रब-जे-महाभागानां यद् वक्तव्यं तदुदध्रियते "hDihi rGya dPe Dag Pa Tham Cad La Da Ni Phyag rGya Ses Pa La Sogs Pas rNal hByor Pa rNam Kyi Phyag rGya Dan Myan Ba Dan Kha Zas Dan rGyu Bahi Nes Pa gSuns Pa Ni Go Laho Ses hByun Gi hGrel Pahi Tshig gSan Med Kyan "Dir thByun Ba Ni Bod Mi mKhas Pa Sig Gis bCug Par mNon No Ses dPan Lo Dan Chos rJe Bu La Sogs Pa mKhas Pa Phal Che Ba gSun La. Kha Cig m Tshan Bu dKyus Su Sor Paho Ses Zer Ro". (hGrel Chen Dri Med Hod Kyi "Grel bsad. The Collected Works of the Lord mKhas Grub rJe dGe Legs dPal bZan Po. Vol. 3. New Delhi, 1980, "Ga", page 141 b). .

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320