Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले] . रसायनादिबालतन्त्रमहोद्देशः 241 इदानीं बुद्धबोधिसत्त्वपूजार्थ गन्धधूपादिकक्षपुटमुच्यते एलेत्यादिनाएला कर्पूरमाला वलघनफलिनी वायसम् अद्रिजं च कर्कोलं सिंहमूत्रोत्पलफलमृगजा रक्तदैत्यानि पूतिः / नागं शीतं रणं पत्रपलजललतान्यम्बरं चक्रमेतत् पञ्चद्रव्यस्तु गन्धं कुरु मृगशशिभिर्दूपपुष्पासवाद्यैः / / 135 // 5 इह शोधितद्रव्याणि गन्धसा(शा)स्त्रोक्तविधिना पञ्चविंशतिकोष्ठात्मके कक्षपुटे पातयेत् / प्रथमकाष्ठे एला, द्वितीये कर्पूरम्, तृतोये मालेति स्पृक(क्का)पुष्पम्, चतुर्थे वलं सिलकचूर्णम्, पञ्चमे घनं मुस्तकम्, षष्ठे फलिनीप्रियङ्गुपुष्पम्,सप्तमे वायसं कृष्णागुरुः, अष्टमेऽद्रिजं शैलेयकम्, नवमे कर्कोलकम, दशमे सिंहमूत्रम्, एकादशमे उत्पलं कुष्ठम्, द्वादशे फलं जातिफलम्, त्रयोदशमे मृगजा कस्तूरिका, चतुर्दशमे रक्तं कुङ्कमम्, पञ्च- 10 दशमे दैत्यं मुरा, षोडशमे पूतिः पुत्रकेशम्, सप्तदशमे नागं नागकेशरपुष्पम्, अष्टादशमे शोतं चन्दनम्, एकोनविंशतिमे रणम् उशीरकम, विंशतिमे पत्रं तमालपत्रम्, एकविंशतिमे पलं मांसी, द्वाविंशतिमे जलं वा(पा)लकम्', त्रयोविंशतिमे लतेति, लता कस्तूरिका, चतुर्विशतिमेऽम्बरं भेरुण्डविष्ठम्, पञ्चविंशतिमे चक्र (वर्क') पिण्डोन(त)गरपुष्पम्, एवमेतद्व्याणि / एभिः पञ्चद्रव्यैर्यथारुचितैः कक्षपुटोद्धृतैः शोभनं गन्धं कुविति 15 नयमः / मृगशशिभिरिति कस्तूरिकाकर्पूरसहितैर्द्धपैः पातयेत्, सुगन्धपुष्पैसियेत्, आसवाद्यैरिति मद्यः सर्वैर्वक्ष्यमाणैः कर्पूरकस्तूरिकाजातीफलसहितैर्वेधयेदिति द्रव्यपातनियमः। इदानीं कक्षपुटपतितानां द्रव्याणां भाग उच्यते नेत्र इत्यादिनानेत्रन्द्वग्न्यब्धिबाणा गुणजलधिशरा हस्तचन्द्रेषु नेत्रा चन्द्राग्न्यब्धोन्दुकाला युगशरनयनाब्धीषु नेत्रेन्दुलोकाः / एलाद्या भागसंख्याः क्रमपरिरचिताः पञ्चपञ्चप्रकोष्ठव्यैर्गन्धं भवेत् कक्षपुटपुरगतैः शुद्धभागैदिनाख्यैः // 136 // इह प्रथमकोष्ठपतितद्रव्यस्य नेत्रमिति द्वौ भागो, द्वितीये इन्दुरिति एको भागः, तृतीयेऽग्निरिति[143b]त्रयः, चतुर्थेऽब्धि[रिति] चत्वारः, पञ्चमे बाणा इति पञ्च, 25 षष्ठे गुणा इति त्रयः, सप्तमे जलधिरिति चत्वारः, अष्टमे शरा इति पञ्च, नवमे हस्त इति द्वौ, दशमे इन्दुरित्येकः, एकादशमे इषुरिति पञ्च, द्वादशे नेत्रमिति द्वौ, त्रयोदशे चन्द्र इत्येकः, चतुर्दशे अग्निरिति त्रयः, पञ्चदशे अब्धिरिति चत्वारः, षोडशे' इन्दुरित्येकः, सप्तदशे काल इति त्रयः, अष्टादशे युग इति चत्वारः, एकोनविंशतिमे शर T327 इति पञ्च, विंशतिमे नयन इति द्वौ, एकविंशतिमे' अबिधरिति चत्वारः, द्वाविंशतिमे 30 1. भो. Pa la Ka / 2. भो. hKhjog Po (वक्र) / 3. क. ख. दत्तैः / 4. भो. Min Par Bya (पाचयेत) / 5. क. ख. महा; भो. Chan (मद्य)। 6-7. ख. पुस्तके नास्ति /

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320