Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 210 विमलप्रभायां अध्यात्मइदानीं चतुःपर्वस्ना(स्था)नमुच्यते द्वयष्टम्यावित्यादिना इह हृत्कमलादिषु वायुतेजउदकपृथ्वीधातुस्वभावेषु चन्द्रः स्वरभेदेन कर्णिकाकेशराग्रेषु चरति। आधास्त्रिशत् स्वरा ये हयरवलयुता बिन्दुभिः श्रीविसर्गभिन्नाः षष्टिर्बभूवु5 रिति / इह पूर्वोक्ता ह्रस्वाः पञ्च, गुणरूपाः पञ्च, यणादेशाः पञ्च ह्रस्वाः; एते पञ्चदश बिन्दु[123a]भिभिन्नास्त्रिशद् भवन्ति / दीर्घवृद्धिस्थानीया हादयः पञ्चदश, त्रिंशद् विसर्गविभिन्नाः; एवं षष्टिर्बभूवुरिति / ते युगनुपवसुदन्ताश्च केशराने इति / अत्र हृत्कमले चन्द्रोऽमां कृत्वा पूर्वापरार्द्धकलाभेदेन पञ्चदशतिथिभिस्त्रिशत् स्वरांश्चरति / अत्र हृत्कमले केशराग्रे शुक्लप्रतिपत् पूर्वार्द्ध अ, अपरार्द्ध अं; द्वितीयायां पूर्वार्द्ध इ, अपराद्धं ई इति हृदये युगचत्वारः कणिकां वर्जयित्वा / ततः कण्ठकमलकेशराने तृतीयायां पूर्वापरार्द्धः ऋ ऋ; एवं चतुर्थ्यां उ ऊ, पञ्चम्यां ल लं, षष्ठ्यां अ अं, . सप्तम्यां ए ए, अष्टम्यां पूर्वार्द्ध अर केशराने, अपरार्द्ध अरं कणिकायामिति; . नवम्यां ओ ओं, दशम्यां अल अलं इति कण्ठकमले केशराने चरति / ततो ललाटकमलकेशराने एकादश्यां पूर्वापराद्धं ह हं, द्वादश्यां पूर्वापरार्द्ध य यं, त्रयोदश्यां र 15 रं, चतुर्दश्यां व वं, पूर्णायां पूर्वार्द्ध ल इति केशराने, अपरार्द्ध लं कर्णिकायामिति / शिरसि पूर्णा चन्द्रस्य सृष्टिक्रमेण वायु-तेज-उदक-कमलकर्णिकासु चरति; ततः पृथ्वीकमलकर्णिकासु संहारक्रमेण कृष्णपक्षे दीर्घान् सविसर्गान् चरति; तद्यथा-कृष्णप्रतिपदि पूर्वार्द्ध लाः, अपराद्धं ला / एवं द्वितीयायां वाः वा, तृतीयायां राः रा, चतुर्थ्यां याः या, पञ्चम्यां हाः हा, षष्ठयां आल: आल, सप्तम्यां औः औ, अष्टम्यां आरः, कणिकायां आर, नवम्यां ऐः ऐ, दशम्यां आः आ, एकादश्यां लूः लू, द्वादश्यां ऊः ऊ, त्रयोदश्यां ऋ ऋ, चतुर्दश्यां ईः इ, पञ्चदश्यां आः आ। अत्र कणिकायां द्वयं शून्यकम्, एतयोः कणिकायां न' स्वरविसर्गौ / पुनः हृत्कमले अमावस्यान्ते प्रतिपदाद्यं हृतकमलकेशराने श्वेतकृष्णा च पूर्णा नियमः। शुक्लाष्टमी कण्ठकमलकेशराग्रे कणिकायां च; कृष्णाष्टमी नाभिकमले केशराने कणिकायाम्, पूर्णा कृष्णा हृदये, पूर्णान्तं शिरसि, हृदय इति 25 अमावस्यान्तप्रतिपत्प्रवेशकाल इति नियमः। इदानीं सूर्यव्यञ्जनभोगा उच्यन्ते बिन्द्वित्यादिना इह कादयो वर्गा बिन्द्वाकारैविसर्गश्चतुभि[123b]भिन्नाः सन्तो विंशत्यधिकाक्षरशतं भवति, तदेव वरकमलदले विंशत्यधिकशते प्रहरगतिवशाद रोहते क्षीयतेऽकः संहारसृष्टिभेदेनेति / अत्र प्रहरगतिः चतुःसन्ध्या, तासां गतिवशात् प्रहरगतिवगादिति / 30 अत्र हृत्कमले अमावस्यान्तं प्रतिपदादौ चतुःषष्टिदलेषु चतुर्दलानि शून्यानोति; तेषु प्रतिपत् स्साः स्सा, याः या इति चतुर्दलेषु चतुःसन्ध्या प्रतिपदा स्सादीश्वरति अर्क इति / एवं द्वितीयायां ष्षाः षा, श्शाः श्शा इति / एवं ततीयायां क्काः क्का, ताः ता इति; 1-2. क. ख. सस्वरौ विसर्गः; ग. अस्वरौ विसर्गः; भो. dByais Dai rNam par bCad pa Med Do (न स्वरविसर्गों)।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9575f649179962a00ef7917a97cb7230543f520aa3b9e5d204054ad27c4f5c3f.jpg)
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320