Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले]. अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः वामनाड्यामाकाशमण्डले श्वासत्रयमारोहते, अष्टमे न / एवं नवमे न [दक्षिणनाड्यां पृथिवीमण्डले श्वासचतुष्टयमारोहते, दशमे न / पुनरेकादशमे वामनाड्यां शून्यमण्डले पश्च श्वासानारोहते, द्वादशमे न / ततस्त्रयोदशमेऽयने दक्षिणनाड्यां पृथिवीमण्डले षट् श्वासानारोहते, चतुर्दशमेऽयने न / एवं षट्श्वासैश्चक्रं तदेकं लिप्ता पाणीपलं वा भवति अत्र सार्द्धमासोनसप्तवर्षाणि | अतो'ऽवधेलिप्ताचक्रोवं श्वासारोहणं न भवति / लिप्ता- 5 स्वभावेन लिप्ता आरोहते अयनगतिवशात् षष्टिसंवत्सरैश्चेति / ततः सप्तवर्षादूर्ध्वमपरषष्टिवर्षाणि यावत् एकान्तरितायने नैकादिना विषमपाणीपलानि आरोहते / एकोनषष्टिलिप्तान यावद् वामनायामाकाशमण्डले, दक्षिणनाड्यां पथिवीमण्डले द्वितीयादिना समानि षष्टिपाणीपलानि यावत् षट्सु षट्सु दलेषु विषमसमलग्नस्वभावेष्विति / पाणीपलचक्रं षष्टिपाणीपलैः, तदेवेकोटका भवति / अतः सप्तषष्टि- 10 वर्षावधेर्नाडो आरोहते, मृत्युनाडीस्वभावेनेति / त्रिंशद्वर्षस्त्रिमासादिति पुनरेकनाडीमादि कृत्वा वामनाच्या दक्षिणनाड्यां विषमसमनाडीमेकान्तरितेनारोहत, अयनार्द्ध त्रिमासैमिनाड्यामाकाशमण्डले एकनाडीमारोहते, अपरत्रिमासैन / पुनरपरायनाद्धं त्रिमासैदक्षिणनाड्यां पृथिवीमण्डले नाडीद्वयमारोहते। एवं त्रिभिर्मासैः षष्टिनाडीश्व वामदक्षिण च षट्सु राशिदलेषु आकाशमण्डले पृथिवीमण्डले आरोहते, मृत्यु डीस्वभावेनेति / अतः सार्धमासोनसप्तनवतिवर्षावधर्नाडीचक्रमारोहते, तदेव दिनमेकं भवति / ततो दिनस्वभावेन दिनचक्र वामदक्षिणनाडयां पूर्वोक्तेन क्र[115b]मेणारोहते, अतो दिवसगतिवशात् कालवर्षेश्च पक्षस्त्रिवर्षेः / चकारात् त्रिपक्षश्च, विद्भिरपरदिनैश्चेत्यत्र मृत्युदिनारोहणसंख्या द्वात्रिंशतः सार्द्धभक्तः कालचक्रादिति / पञ्चविंशत्यधिककादशशताल्लब्धं दिनगणं कणिकापर्यन्तं वेदितव्यम् / अत्रारोहणदिनानि लब्धानि 20 सार्द्धद्वात्रिंशविभागेन चतुस्त्रिशत्, घटिका षट्त्रिंशत्, पाणीपलानि पञ्चपञ्चाशत्, सार्द्धश्वासद्वयम्, एषु दिनमेकं कणिकायामवशेष वामदक्षिणारिष्टो वेदितव्यः। प्रतिदिना• रोहणं घटिकाधिकं भवति, अन्तिमारोहणं दक्षिणनाड्यामिति कालमृत्युनियमः / इदानीं नाभिचक्रादिनाडिकाच्छेद उच्यते पक्ष इत्यादिनापक्षे पक्षे च नाडी नवहतभुजगाश्च्छिद्यते नाभिचक्रे सन्धावैकैकनाडी त्यजति शिखिदिनः कर्मचक्रे क्रियाख्ये / कण्ठे नक्षत्रनाडीस्त्यजति दिनदिने मासमध्ये क्रमेण बिन्दुस्थं पक्षमध्ये त्यजति शशिपदं वारनाडी हृदिस्थः // 67 // अत्र नाभी द्वादश राशिनाड्यः षष्टिमण्डलवाहिन्यः षष्टिः, नवहतभुजगाष्टो नवभिर्हता द्वासप्ततिर्भवन्ति / अतो नवहतभुजगे नाभिचक्रे पक्षे पक्षे च नाडी च्छिद्यते। अत्र पक्षोऽष्टादशदिनर्वेदितव्यः, तेन पक्षण वामे शून्यादिमण्डलवाहिनी 1. ग. ततो। 2. क. ख. वहति /
Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320