Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले ] . अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः 197 प्रवाहतः। एवं चन्द्रस्याधो गुणत्रयम्, सूर्यस्योर्ध्वं पञ्चमण्डलविषयगुणपञ्चकम् / तेन त्रिगुणभेदेन वामे चन्द्रारिष्टम्, दक्षिणे पञ्चगुणभेदेन सूर्यारिष्टः, अधोव॑नाड्योरिति चन्द्रसूर्यारिष्टनियमः। इदानीं मध्यमापरिपूर्णकालमरणलक्षणमुच्यते कालाब्दमित्यादिनाकालाब्दं यावदेका दिवसगतिवशाद् रोहते संक्रमन्ती चन्द्राख्ये सूर्यमार्गे विषमसमदिनैरेकवृद्धया क्रमेण / भूयः संक्रान्तिभेदो विषमसमदिनदिशारे करोति सादं मासं हि यावत् त्रिगुणितदशकं जीवितं च त्रिरात्रम् // 65 // इह शरीरे नरनारीणां सत्त्वरजस्तमोभेदेन प्राणप्रवाहः। सार्द्धदशमासाधिकषड्नवतिवर्षाणि यावद् वामदक्षिणे पञ्चमण्डलप्रवाहतः / त्रिवर्षत्रिपक्षाणि(न्) यावत् 10 मध्यमकालः वर्षशतायषां नराणामिति नियमः। तत्र वामदक्षिणमध्यमास्तिस्रो नाड्यः सत्वरजस्तमःस्वभाविन्यः; आसु मृत्युस्तमोनाडीप्रवाहसंख्यां गृहीत्वा प्राणापानस्वभावेन / वामायां दक्षिणायां विषमसमदिने रोहते कालान्दं त्रिवर्षत्रिपक्षं यावत् / दिवसगतिवशात् दिवसाः पञ्चविंशत्यधिकैकादशशताः, तेषां गतिवशाद्यावदायुःक्षयो भवति तावदारोहते संक्रमन्निति(न्ती)चन्द्राख्ये वाममार्गे सूर्यमार्गे दक्षिणे विषमसमदिनैरेक- 15 वृक्षचा क्रमेणेति एकदिनं वामनाड्यां रोहते यदि मेषादिविषमलग्ने जन्मोऽ()भूत्; दक्षिणे दिनदयमारोहते यदि वषादिसमलग्ने जन्मोऽभत / ततो भयः संक्रान्तिभेदं विषमसमदिनर्वामारोहणावसाने दक्षिणारोहणावसाने च करोति[114a]आरोहणदिनमानेनेति / द्वावशारे राशिचक्रे क्रमेण पञ्चमण्डलपरित्यागाय वामनाड्यामाकाशादिमण्डलक्षयार्थ संक्रान्ति करोति, दक्षिणनाड्यां पृथिव्यादिमण्डलक्षयार्थं करोति / अत्र 20 .वामे पञ्चदिनारोहणेन संक्रान्तिदिनैर्मेषादिविषमलग्नेषु षट्सु शन्यमण्डलप्रवाहं प्राणवायुः त्यजति; दक्षिणे षट्दिनारोहणेन षट्संक्रान्तिदिनैर्वृषभादिसमलग्नेषु षट्सु पृथिवीमण्डलप्रवाहं त्यजति प्राणः। एवं वामनाड्यामेकादशदिनैर्वायुमण्डलं त्यजति, दक्षिणदलेषु द्वादशदिनरुदकमण्डलं त्यजति / एवं सप्तदशदिनैर्वामदलेषु तेजोमण्डलं त्यजति; दक्षिणदलेषु अष्टादशदिनस्तेजोमण्डलं त्यजति / भूयो वामदलेषु त्रयोविंशति- 25 दिनरुदकमण्डलं त्यजति; दक्षिणदलेषु चतुर्विंशतिदिनर्वायुमण्डलं त्यजति / पुनरेकोनविंशद्दिनर्वामदलेषु षट्सु पृथ्वीमण्डलं त्यजति / दक्षिणे त्रिशद्दिनैराकाशमण्डलं त्यजति / एवं विषमसमदिनर्वामदक्षिणारोहणेनेति' त्रिशद्दिनानां त्रिंशत्संक्रान्तिदिनादशलग्ननाडीदलेषु पञ्चमण्डलपरित्यागः / ततः एकत्रिंशद्दिनारोहणेन वामनाड्यां विषमदलेषु सत्त्वधातुक्षयः / एकत्रिंशत्संक्रान्तिदिनैरपि दक्षिणनाड्यां द्वात्रिंशद्दिनारोहणेन 30 रजोधातुक्षयः / द्वात्रिंशत्संक्रान्तिदिनैरपि। ततस्त्रयस्त्रिशदिनारोहणेन विषमदलेषु तमोधातुक्षयः, त्रयस्त्रिंशत्संक्रान्तिदिनैरिति / एवं श्लेष्मनाडीक्षयः विषमसमदिनमा वृषभादिसमलग्ने जन्मोऽ(r)भूत् / ततो भयः १.क.०णारोहणेति / 26
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/80728b08b1052ba086e72a74dedb42c24ff246227a070f50ce56a6b96cdc7efc.jpg)
Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320