Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 209
________________ विमलभायां [अध्यात्म इह शरीरे पञ्चस्कन्धानामाषारो हि भौतं (तो) पृथिव्यादिभूतसमूह (हो) भवति / तत्कस्य हेतोः? इह पृथिव्यादिप्रकृतेरभावात् प्रत्ययो नास्त्यविद्यादिकः / अविद्यासंस्कारविज्ञानादिप्रत्ययाभावे रूपादिस्कन्धाभावः। यतश्चतुर्भूतात्मक रूपम्, षड्वात्वात्मको महापुरुषपुङ्ग(द्ग)लः, अतः स्कन्धाधारो हि भौतं(तो)भवति / बरतनी भूतवृन्दस्य नाड्यो द्वासप्ततिसहस्रसंख्या भवन्त्याधारास्तासां नाडीनामपि प्राणवायुराधारः, संस्कारकारणात् / स च दशविषो वक्ष्यमाणो वक्तव्यः / चेतना [91b] प्राणवायोराधारः; सा चेतना तदेव द्विस्वभावं चित्तं भवति, गुणवशादिति सत्त्वरजोवशात् (स)स्वभावं' जाग्रतस्वप्नलक्षणम. तमोगणवसान्निःस्वभावं सस(षप्तलक्षणं निरिन्द्रियं भवति / तयोश्च सस्वभावास्वभावयोर्भाधारः सुखदुःखावस्थाधावी(धारी)' संसारि10 णाम् / स च सुखदुःखाभ्यां रहितस्त्रिमुवननमितो यः सोऽनाहतः सर्वगो भवति सुखदुःखान्तकृन्निष्ठ इति / गन्धोत्पत्तिधरण्यामपि शिखिनि रसस्योदके रूपधातोः वायो स्पर्शस्य शान्ते त्वपि भवति रवस्याम्बरे धर्मधातोः / शून्यं गृह्णाति शब्दं खलु जिनजनको धर्मधातुं च वायुः गन्धं वह्निश्च रूपं रसमपि सलिलं स्पर्शमेव धरित्री // 20 // धातूनां जन्यजनकसम्बन्धमाह गन्ध इत्यादिना इह बाह्ये वाऽध्यात्मनि गन्धोत्पत्तिधरण्यां भवति मुख्यतः, रसादीनां पुनर्गौणत इति / अपि सम्भावने, शिखिन्यग्निधातो रसस्य षट्प्रकारस्याग्नेः परिपाकहेतुतो रसस्योत्पत्तिर्भवति, यतस्तस्मादुदके रूपधातोः। इहाकुरादीनां प्ररोहादिकं नानावर्ण 20 नानासंस्थानमुदकाद् भवति मुख्यतः, गौणतः पुनः रसादीनामप्युत्पत्तिः / एवं वायो वायुधातो स्पर्शस्योत्पत्तिर्भवति; शान्ते ज्ञानधातौ रवस्येति शब्दोत्पादः। अम्बरे पश्चात्मकरसधातौ शूतके (सूचके) धर्मधातोर्बोधिचित्तधातोरुत्पत्तिर्भवति सुखावस्थाया इति / इदानीं ग्राह्यग्राहकसम्बन्ध उच्यते___ इह परकुलालिङ्गनतः कार्यसिद्धिर्भवति, स्वकुलालिङ्गनेन स्वात्मनि क्रियाविरोधात् / अतः परकुलालिङ्गनं शरीरोत्पत्तिकारणं भवति / तेन शून्यमिति शून्यकुलो द्भूतं श्रोत्रेन्द्रियं गृह्णाति शब्दं ज्ञानधातूद्भूतम् / खलु जिनजनक इति निश्चितं ज्ञानधातूद्भूतं मनइन्द्रियं गृह्णाति, धर्मधातुमाकाशधातूद्भूतविषयम् / वायुरिति जन्यजनकाभेद्यत्वेन वायूद्भूतं घ्राणेन्द्रियं भूमिधातूद्भूतं गन्धविषयं गृह्णाति / व[92a]ह्नि 25 1. भो. Rai bSin Can (सस्वभावं)। 2. ग. भो. bdain Pa (धारी)। 3. अत्र ख. पुस्तके 'गन्धोत्पत्तिधरण्यामपि शिखिनि रसस्योदके रूपधातोः वायो इत्यादिश्लोकः' इत्यधिको लिखितः। 4. भो. gSal Bar Byed Pa (सूचके)।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320