________________
अथ द्वितीयस्तरङ्गः जयसिरिवंछिअ सुहए, अणिट्ठहरणे तिवग्गसारंमि।इहपरलोगहिअत्थं, वरधम्मे उजमह भविया ॥१॥ सो पुण बहुहा वुत्तो, लोइअलोउत्तराइभेएहिं । सबुत्तमफलदाणा, जिणधम्मो तेसु पुण सारो ॥२॥
यतः-कंथेरी १ समीबाउल २, गिरि ३ निव ४ सुरवण ५ समा पण धम्माः।
नाहिय १ भिक्खा २ तावस ३, सावय ४ जइधम्मभेएहिं ॥१॥ व्याख्या-कन्थेरीवन १ समीबबुलवन २ गिरिवण ३ नृपवन ४ सुरवन ५ समाः नास्तिकानां भिक्षूणां-सौगतानां! 16२ तापसानां ३ श्रावकाणां ४ यतीनां ५ धर्माः पञ्चप्रकारा भवन्तीत्यक्षरार्थः।भावार्थस्त्वयम्-कन्धेरीवनं यथा निष्फलं
भवति सर्वतः केवलकण्टकाकीर्णतया जनानां विदारणाद्यनर्थजनकं च स्यात्, दुष्टावेशनिर्गमं च, एवं नास्तिकधर्मः सर्वथा स्वल्पमपि शुभफलं न दत्ते इह च धिक्कारादि परत्र नरकगत्यादिदुःखानर्थ च दत्ते । जनतानिन्द्यताधिक्कारनृपदण्डादिभिया दुष्प्रवेशः, प्रविष्टानां च स्वैरं मद्यमांसादिभक्षणस्वपराविशेषस्त्रीभोगादिविषयसुखास्वादलाम्पट्यादिना दुर्निर्गमश्च ततः सर्वथा त्याज्य एव । “दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते" इत्यादिनिरुक्तार्थाभावेऽपि तदाश्रितजनैर्धर्माभिमानधरणात् तस्य धर्मव्यपदेशः, एवमन्यत्राप्यग्रे भाव्यम् । इति प्रथमो भेदः १॥
शमीवब्बुलवनं उपलक्षणात् खदिरबदरीकरीरादिवनं केवलं मिश्रं वाऽभ्यूह्यम् । तच्च विशिष्य शुभफलानि न दत्ते,
T4 T5 Ti Ti Ti Ti Tin Thể Thao Tin Tà TTTT để
-सौगताना
कारादि परत्र नरपानयजनकं च स्यात्, मावास्त्वयम्-कन्धेरी
aman
Jain Education
For Private & Personel Use Only
Mharjainelibrary.org