Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 407
________________ कुदानयागहोमादीन् कर्दमोपमान् कुधर्मान् कुर्वते । केचिन्मिथ्याव्रततपोदानमाघस्नानादीन्यपि अशुचीनि कुर्वते, तेषांच कालकगुरुद्वेषिदत्तनृपादिवद् दुर्गतिरेव प्रायः स्यात् , केषाञ्चिद्व्यन्तरत्वाद्यपीति २॥ ___ अथ यथा वृषा उपलक्षणाद्वादयः प्राप्ती शुद्धे मिष्टे च जले रमन्तेऽतिविशेषं च न जानते, तत एव शुद्धजलाप्राप्त्या कलुषेऽपि च; तथा केचिद्भद्रकप्रकृतयोऽनभिगृहीतमिथ्यादृशो मिश्रगुणस्थानीया वा तादृक्सामग्रीविशेषेण शुद्धे जिनधर्मे मिथ्यातपोव्रतनिर्विशेषदयादानादिषु वा सामान्यतः सर्वधर्मेषु वा रमन्ते, जिनधर्मे वा ऐहिकपारत्रिकसुखार्थ सप्रत्ययजिनतीर्थादियात्रापार्श्वस्थादिलोकोत्तरकुगुरुसेवोपदेशात्यादिसमहिमस्तोत्रादिपाठस्मृतिविशेषविधिरहितजिनस्नात्रपूजावश्यकादिक्रियासु यतन्ते । पार्श्वस्थादयोऽपि वा ऐहिकनिर्वाहार्थितया परलोकसुखार्थिनोऽपि प्रमादवशाद् यतिवेषधारिणः कियदावश्यकादिक्रियापराः शुद्धोपदेशादिरतयश्च, ते च देवत्वादि लभन्ते प्रेत्य धर्म चेति ॥ ३॥ । अथ च यथा बका उपलक्षणादन्येऽपि ढीङ्कचक्रवाकसारसादयः स्वभक्ष्याणि मत्स्यादीनि यत्र शुचीन्यशुचीनि वा जले लभन्ते तत् सेवन्ते, एवं केचिद्वृषभदासश्रेष्ठिधोटकापहारब्रह्मचारितपस्विवदुदायिनृपमारकादिवदभयकुमारग्रहणार्थिकपटश्राविकादिवद् वा यस्मिन् शुद्धेऽशुद्धे वा गृहिसम्बन्धिनि यतिसम्बन्धिनि वा धर्मे कपटेनादृते परविश्वासनद्रव्या|च्छेदादिस्वकार्यसिद्धिं पश्यन्ति तमाश्रयन्ते, ते च महापापा इह परत्र च दुर्यशोजननिन्दाराजदण्डादिदुःखानि नरका दिदुःखानि च लभन्ते, दुर्लभबोधिकतयाऽनन्तसंसारं च भ्राम्यन्तीति ४॥ INI अथ यथा गजा दानलुभ्यमरझङ्कारहारिणो राजादीनामपि मान्या अगाधे शुचिन्येव च जले रमन्ते, यथेच्छं। शिम 0090 - Jain Education a l For Private & Personel Use Only Nw.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486