Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लद्धोभयलिङ्गत्वात् । द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रकालमगृहीतद्रव्य
लिङ्गाः । चतुर्थभङ्गतुल्याः साधवः शीलयुक्ता गच्छतादयः । यथा रूप्यरूपको भङ्गत्रयान्तर्गतो न च्छेक इत्यविकलतदर्थ-16 क्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते । एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः, चरमभङ्गगता एव तु नमस्करणीया इति भावना । सम्यक्त्वमाश्रित्य पुनरित्थं नयमतविचार:-निश्चयनयमतेन सर्वज्ञोक्ततत्त्वेषु सम्यक्छ्रद्धानं सम्यक्त्वं, तद्वांश्च सम्यग्दृष्टिः । व्यवहारमतेन तु मिथ्यात्वकारणानि प्रत्या चक्षाणः सम्यक्त्वकारणान्युपाददानश्च सम्यग्दृष्टिरुच्यते । मिथ्यात्वकारणानि च लौकिकलोकोत्तरदेवगुरुगतधर्मगता
दिभेदाद् बहुभेदानि, सम्यक्त्वकारणानि जिनार्चनतीर्थसेवादीनि च ग्रन्थान्तराज्ज्ञेयानि । उभयनयमतं पुनः प्रमाणम् ।। Toll एवमन्यत्राणि नयद्वयभावना कार्येति । ततः प्रस्तुतनयद्वयस्य चक्राभ्यां रूपकम् । उत्तराद्धेऽस्मिन् मात्राधिक्यं न दोपाय, गाथाच्छन्दसां बहुत्वादिति ।
अनेकधेतिस्फुटितां निशम्य, सद्धर्मसम्यक्त्वगुणैकमूलताम् ।
सम्यक्त्वरम्ये व्रतपालनादिके, यतस्व भावारिजयश्रिये कृतिन् ! ॥ १॥ ॥ इति तपाश्री मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे चतुर्थेऽशे सप्तमस्तरङ्गः॥
000000000GGO000000000
Jain Educator
For Private & Personel Use Only
Tww.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486