Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 483
________________ जयपत्रमर्पितम् । अन्यदा जययात्रायां चतुरङ्गचमूवृते गूर्जराधीशे चलिते श्रीवीराचार्यचैत्यपुरः सञ्चरिष्णौ भूपं दृष्ट्रा कश्चित् कविः समस्यापदमाह, तदुद्दिश्य वीराचार्ये दृष्टिं राजा चिक्षेप । तेन लीलयैवापूरि । तथाहि-कालिन्दि ! ब्रूहि । कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्मात् ?, शत्रोमें नर्मदाऽहं त्वमपि मम सपक्ष्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कजलालवीनां, बाष्पाम्भोभिः किमासां समजनि चलितो गूर्जराणामधीशः॥१॥ नृपः प्राहअनया तव सिद्धवाचा मालवं ग्रहीष्याम्येव । त्वया बलानकस्थेन, प्रोक्तो मे शत्रुनिग्रहः । विजयस्य पताकेयं, ततस्त वास्तु सा दृढम् ॥१॥ ततः सा तत्र तैबन्धिता । कमलकीर्तिदिगम्बरवादी अन्यदा श्रीसिद्धराजसभामागत्य वादार्थ वीराचार्यमाह्वास्त । वीरोऽपि पञ्चवर्षीयवालां सहादाय तत्र प्राप्तः । अवज्ञया वीक्ष्य तं वादिनमासने निविष्टः । वादी प्राह-राजन् ! तव सभा विदुषामयोग्या बालिकाविप्लुता । राजाऽऽह-स्वप्रमाणेन क्रीडत्येष बुध इत्युक्त्वा वीरो वीक्षितः प्राह-समानवयसोर्वाद इति ध्यात्वा बालैषा नग्नाऽऽनीता, एषोऽपि नग्नत्वाद् दृश्यते बाल इव, ततः स्त्रीमुक्तिनिषेधकुपितयाऽनयैव वादेऽसौ विजेष्यते इति । ततो हस्तं तन्मौलौ प्रदाय वीरः प्रोचे-बाले ! वदानेन सह, स्थापय स्त्रीमुक्तिम् । ततः सा गङ्गापूरमिव दुरुत्तरं व्यक्तमुपन्यास मेघगम्भीरगिरा स्त्रीमुक्तिस्थापकं चके । तं श्रुत्वा वादी अनेडमूक एव जातः । जातो जिनधर्मे जयजयारवः । राजाऽऽह-यस्य हस्तस्पर्शेन यत्र तत्र सङ्क्रान्ता वाग्देवी भाषते स वीरायों जगत्यजय्य एवेति । इह हि जिनमतेऽष्ट प्रभावकाः। उक्तं च-पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ। विजा| सिद्धो अ कई, अवेव पभावगा भणिआ॥१॥ तत्रते श्रीवीराचार्या वादलब्धिकवित्वशत्यादिभिः श्रीजिनमतं प्रभा Jain Education For Private Personal use only sjainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486