Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 484
________________ मुनिसुन्दर वयन्ते स्मेति । एते पञ्चापि श्रीजिनधर्मस्य प्रत्यनीकाद्यन्धकारनिरासेन महोद्योतकारकत्वादुद्योताः । एते च शासनसू० वि० ) प्रभावकत्वेने हापि महिमसमृद्धिं जने पूज्यतां च प्रामुवन्ति, क्रमाच्चक्रित्वेन्द्रपदतीर्थ करादिसमृद्धीः सिद्धिपदानन्तवैभव| साम्राज्यं च लभन्त इति । दृष्टान्तशतैर्बहुधो-पदर्शितं धर्मपदमिति श्रुत्वा । शुद्धे तस्मिन् प्रयता, भवरिपुविजयश्रिये भवत ॥१॥ ॥ २३१ ॥ इति युग प्रधानवातारश्रीतपागच्छनायक श्री देव सुन्दर सूरि - श्रीज्ञानसागर सूरि-श्रीसोमसुन्दर सूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीउपदेशरत्नाकरे मध्याधिकारे प्रकीर्णकोपदेशनाम्नि तुर्येऽंशे द्वादशस्तरङ्गः ॥ सम्पूर्णोऽयं मध्याधिकारः । तत्समाप्तौ च सम्पूर्ण विषमगाथाविवरणम् । अथाऽपरतटं तत्सुगमत्वान्न वित्रियते इति । रङ्गत्तरङ्गनिकरः स्वकृतोपदेश - रत्नाकरो विजयतां विलसज्जयश्रीः । Jain Education In भूयासुरस्य च लवानुपजीव्य विष्वग्, विश्वोपकारनिरता विबुधाम्बुवाहाः ॥ १ ॥ बुधैर्वाच्यमानो ग्रन्थश्चिरं जीयात् । प्रत्यक्षरं गणनया, ग्रन्थमानमनुष्टुभाम् । षट्सप्ततिशती पञ्च - सप्तत्याऽभ्यधिका स्फुटा || १ || ७६७५ ॥ सर्वग्रन्थसङ्ख्येयम् । श्रीरस्तु । शुभं भवतु । भद्रं भवतु भगवतः श्रीश्रमणसङ्घस्य ॥ ॥ सम्पूर्णोऽयमुपदेशरत्नाकरग्रन्थः ॥ इति श्रेष्टि-देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः २१. For Private & Personal Use Only 16 उपदेशर० तरंग १२ ॥ २३१ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486