Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 482
________________ मुनिसुन्दर सू० वि० ॥ २३० ॥ | समागात् । पत्रावलम्बने तस्यायं श्लोकः — उद्धृत्य बाहू किल रारटीति, यस्यास्ति शक्तिः स च तावदेतु । मयि स्थिते वादिनि वादिसिंहे, नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ १ ॥ श्री कर्णवालमित्रं श्रीवीराचार्य कलागुरुगोविन्दाचार्योऽस्ति, तत्पार्श्वे प्रच्छन्नवेषेण राज्ञा आगत्य पृष्टम् - भगवन् ! वादिसिंहेन सह वादः करिष्यते ? गोविन्दाचार्यैरुक्तम् - वीरस्तं प्रातर्जेष्यति सभायाम् । प्रातर्भूपेन वादिसिंह आकारितः प्राह निःस्पृहत्वदम्भेनन्वयं कस्मात् तत्र गच्छामो निःसङ्गाः १, राजा चेत् कौतुकी तदा पादचारेणात्रागमिष्यति । राज्ञा कौतुकात् तथैव कृतम् । गोविन्दाचार्यः सभ्यतयाऽऽकारितः प्राप, अपरे - ॐ ऽपि वीराचार्यप्रमुखा विदुराः । राजाऽऽह - को वक्ताऽत्र ? श्रीगोविन्दाचार्यः प्राह - श्रीवीराचार्यः । सांख्यः प्राह - - एप Q) दुग्धगन्धमुखो मया सह किं वदिष्यति ? । राज ऽऽह-त्वन्मदधत्तरविभ्रमो दुग्धादेव विलेष्यते । इति श्रुत्वा सोर्ध्वहस्त स्थशिराः सुप्त एवोपन्यासमवहीलया चक्रे । तदनु वीरः प्राह -गद्यात् पद्याद् वा वच्मि ?, छन्दोऽलङ्कारावपि कथय । सांख्यः प्राह - भो बाल ! गौर्जराडम्बरो मत्पुरो न क्रियते । चेत् ते शक्तिरस्त्येव तदा मत्तमयूरच्छन्दसा निह्नवालङ्कारेण च ॐ वद । वीरः - 'गिरां देव्यास्त्वयेव मयाऽऽशातना न क्रियते' इत्युक्त्वा ऊर्ध्वभूय सर्वानुवादपूर्व प्रत्युपन्यासं चक्रे, सांख्योQ) ऽपि तदासनस्थोऽभूत् । श्रीवीरे मत्तमयूरच्छन्दसा निह्नवालङ्कारेण च तं कृत्वा विरते सर्वानुवादकरणाशक्तः सांख्यः प्राह- नाहं सर्वानुवादोपन्यासे समर्थः । ततो राजा वाहौ विधृत्य भूतलेऽमुं पातयामास । वक्तुं चेन्न शक्तस्तदा आसनस्थः कथं ब्रूपे ? तदा कविराजश्रीश्रीपालः प्राह – गुणैरुत्तुङ्गतां याति, नोच्चैरासनसंस्थितः । प्रासादशिखरस्थोऽपि, काकः किं गरुडायते ? ॥ १ ॥ विडम्ब्यमानः स वीराचार्येण न्यवारि । राज्ञा सांख्यो देशात् कर्षितः, श्रीवीराचार्यस्य तु ॐ Jain Educationonal For Private & Personal Use Only उपदेशर० तरंग १२ ॥ २३० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486