Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 479
________________ Jain Education Inter ॥ अथ दशमस्तरङ्गः ॥ दुरिआरिजयसिरीए, जइ लहु अक्खंडिअं सुहं महह । ता सत्तभावसुद्धं, धम्मं सम्मं समायरह ॥ १ ॥ यतः - विज्जा १ चक्कि २ रसेयर ३ चूअतरू १ सालि २ विजयाणि ३ जहा । सिग्घासिफला तह, नियमाइजुआऽजुआ धम्मा ॥ २ ॥ विद्याचरसा इतरे चेति षड्भेदाः, तत्सम्बन्धप्रतिबद्धानि चूततरुशालिवैद्य कानि यथा — यथाक्रमं शीघ्राशीघ्रफलानि स्युस्तथा नियमादियुतायुता धर्मा अपि शीघ्राशीघ्रफलाः स्युरिति संटङ्कः । तत्र विद्या चूततरुर्मन्त्रवादिना केनचिदू राजपर्षदादिषु मृन्निचये चूतबीजं निवेश्य जलसेकादिना विद्यावशेन सद्यः प्रौढिं नीतः सहकारतरुः १ । चक्रिशा - लिश्च क्रिसम्बन्धिकाश्यपरलेन हस्तस्पर्शादू द्वादश योजनविस्तार भाजिचर्मरलेन प्रातरुप्तोऽपराहे लूयते २ । रसवैद्यकं तु | रसायनचिकित्सा । यथैतानि त्रीणि सद्यः स्वस्वफलप्रदानि तथा नियमेनादिशब्दात् सत्त्वेन च युता धर्माः सद्यो वाञ्छित फला भवन्ति । यथा देवपालकपर्दिचनकश्रेष्ठिप्रभृतीनां देवपूजाधर्मः सद्यो राज्यादिफलप्रदः, मूलदेव भद्रश्रेष्ठिप्रभृतीनां | दानधर्मश्च, सुदर्शनश्रेष्ठिप्रभृतीनां शीलं, गजसुकुमालढण्ढणकुमारनाग केतुश्रेष्ठिप्रभृतीनां तपश्च स्वर्गापवर्गादिफलमित्यादि । सनियमधर्मस्येत्थं, सद्यः फलवैभवं निशम्य बुधाः । । तस्मिन् सदादरपराः, कर्मरिपुजयश्रिये भवत ॥ १ ॥ ॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते० दशमस्तरङ्गः ॥ For Private & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486